Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 223
________________ १६५ महाविद्याविवरणम्। एवंविधो धर्मः नित्यवृत्तित्वानधिकरणं विलोक्यते, द्रव्यत्वं च नित्येष्वपि वर्तते । तस्मान्नित्यवृत्तित्वाऽनधिकरणेति ग्रहणेन तन्निषिद्धमित्यर्थः । तथा चैवमनुमानं स्यात् , आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणधर्मवानिति । तथाप्येवंभूतस्येति । आत्मत्वं हि नित्यवृत्त्यस्ति, न तु अनित्यवृत्तीति पूर्वोक्तयुगलावृत्तिप्रकारेण तत् शब्देतरानित्यनित्यवृत्तित्वानधिकरणमुच्यते । अतः तेन सिद्धसाधनं स्यादेवेति । तदर्थमनित्यवृत्तीत्युक्तमिति। एवंविधो धर्मः अनित्यवृत्तिविलोक्यते । आत्मत्वं चानित्यवृत्ति नास्ति । नित्ये एव आत्मनि तस्य वर्तनात् । तस्मात्तन्निषिद्धमित्यर्थः । ननु आत्मा शब्देतरधर्मवानिति क्रियतामिति चेत् । न । आत्मत्वेनैव सिद्धसाधनात् । तस्य आत्मधर्मत्वेन शब्देतरधर्मत्वात् । तदर्थं नित्यवृत्तित्वानधिकरणेत्युक्तम् । तथापि विरोधः । आत्मवृत्तित्वे नित्यत्तित्वानधिकरणत्वानुपपत्तेः। तदर्थमनित्यपदग्रहणम् । तथाप्यात्मत्वादि युगलावृत्त्यपि भवति। आत्मन्येव वर्तनात् । तदर्थमनित्यवृत्तिधर्मवानिति कृतम् । स च धर्म: आत्मनि नित्ये बोधितः शब्दस्य अनित्यत्वमादाय पर्यवस्यति । से च शब्दामनोरन्योन्याभावः एव । __ (भुवन०)-अथ आशङ्कामुखेन प्रकारान्तरेण व्यावृत्तिचिन्तां करोति-नन्वित्यादि । आत्मा शब्देतरधर्मवानित्यादि स्पष्टम् । तथाप्यात्मत्वादि युगलावृत्त्यपि भवतीति । आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणधर्मवानितिकृतेऽप्यात्मत्वमात्मनि नित्ये वर्तते, न अनित्ये । तेन युगलावृत्तित्वेन नित्यानित्ययोरवर्तनादात्मधर्मत्वाच्च तेन सिद्धसाधनं स्यात् , तदर्थमनित्यवृत्तिधर्मवानिति कृतमित्यर्थः। ___ अर्थतस्यानुमानस्य व्याख्या-आत्मा पक्षः । अनित्ये वृत्तिः यस्य सोऽनित्यवृत्तिः । स चासौ धर्मश्चेति । शब्दादितरे शब्दव्यतिरिक्ता ये अनित्या घटादयो नित्याश्चाकाशादयः, तेषु ये वर्तन्ते धर्माः, तेषु शब्देतरानित्यनित्यवृत्तित्वं धर्मः, तस्यानधिकरणमनाधारः । स चासौ अनित्यवृत्तिधर्मश्चेति समासः । अत्र शब्देतरानित्यनित्ययुगलवृत्तिः धर्मः सत्ताद्रव्यप्रमेयत्वादिः शब्देतरानित्यनित्यवृत्तित्वानधिकरणेतिपदेन निरस्तः । अथ च यो नित्ये एव केवले विद्यते नित्यत्वस्थिरैकस्वभावत्वादिः, स चानित्यवृत्तीतिपदेन निरस्तः । अथ चानित्ये एव केवले यो धर्मोऽनित्यत्वादिः विद्यते, स नित्ये आत्मनि पक्षीकृतेऽसंभावादेव निरस्तः । एतावता शब्देतरानित्यनित्ययुगल. वर्ती एकैकनित्यमात्रानित्यमात्रवर्ती च धर्मः साध्यरूपतया निषिद्धः । अवशिष्टश्च साध्यधर्मो विश्वप्रतियोगिकः शब्दात्मान्योन्याभावः शब्दात्मान्योन्यत्वादिर्वा पक्षे आत्मनि सिध्यति । ननु सिध्यतु विश्वप्रतियोगिकः शब्दात्मान्योन्याभावादिः पक्षे, परं शब्दस्यानित्यत्वं कथं सिध्यतीत्याशङ्कय आहस च धर्म इति । स धर्मः शब्दात्मान्योन्याभावादिनित्ये आत्मनि बोधितः साधितः सन् शब्दस्यानित्यत्वमादाय पर्यवस्यति विश्राम्यति । यतः आत्मनि वर्त्तनेऽपि तस्य धर्मस्यानित्यवृत्तित्वं तदैव स्यात् , यद्यनित्यः शब्दः स्यात् । आत्मनो नित्यत्वात् । आत्मनित्यत्वे च वादिप्रतिवादिनोरवि १ स च धर्मशब्दा इति ख पुस्तकपाठः । । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260