________________
१६५
महाविद्याविवरणम्। एवंविधो धर्मः नित्यवृत्तित्वानधिकरणं विलोक्यते, द्रव्यत्वं च नित्येष्वपि वर्तते । तस्मान्नित्यवृत्तित्वाऽनधिकरणेति ग्रहणेन तन्निषिद्धमित्यर्थः । तथा चैवमनुमानं स्यात् , आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणधर्मवानिति । तथाप्येवंभूतस्येति । आत्मत्वं हि नित्यवृत्त्यस्ति, न तु अनित्यवृत्तीति पूर्वोक्तयुगलावृत्तिप्रकारेण तत् शब्देतरानित्यनित्यवृत्तित्वानधिकरणमुच्यते । अतः तेन सिद्धसाधनं स्यादेवेति । तदर्थमनित्यवृत्तीत्युक्तमिति। एवंविधो धर्मः अनित्यवृत्तिविलोक्यते । आत्मत्वं चानित्यवृत्ति नास्ति । नित्ये एव आत्मनि तस्य वर्तनात् । तस्मात्तन्निषिद्धमित्यर्थः ।
ननु आत्मा शब्देतरधर्मवानिति क्रियतामिति चेत् । न । आत्मत्वेनैव सिद्धसाधनात् । तस्य आत्मधर्मत्वेन शब्देतरधर्मत्वात् । तदर्थं नित्यवृत्तित्वानधिकरणेत्युक्तम् । तथापि विरोधः । आत्मवृत्तित्वे नित्यत्तित्वानधिकरणत्वानुपपत्तेः। तदर्थमनित्यपदग्रहणम् । तथाप्यात्मत्वादि युगलावृत्त्यपि भवति। आत्मन्येव वर्तनात् । तदर्थमनित्यवृत्तिधर्मवानिति कृतम् । स च धर्म: आत्मनि नित्ये बोधितः शब्दस्य अनित्यत्वमादाय पर्यवस्यति । से च शब्दामनोरन्योन्याभावः एव । __ (भुवन०)-अथ आशङ्कामुखेन प्रकारान्तरेण व्यावृत्तिचिन्तां करोति-नन्वित्यादि । आत्मा शब्देतरधर्मवानित्यादि स्पष्टम् । तथाप्यात्मत्वादि युगलावृत्त्यपि भवतीति । आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणधर्मवानितिकृतेऽप्यात्मत्वमात्मनि नित्ये वर्तते, न अनित्ये । तेन युगलावृत्तित्वेन नित्यानित्ययोरवर्तनादात्मधर्मत्वाच्च तेन सिद्धसाधनं स्यात् , तदर्थमनित्यवृत्तिधर्मवानिति कृतमित्यर्थः। ___ अर्थतस्यानुमानस्य व्याख्या-आत्मा पक्षः । अनित्ये वृत्तिः यस्य सोऽनित्यवृत्तिः । स चासौ धर्मश्चेति । शब्दादितरे शब्दव्यतिरिक्ता ये अनित्या घटादयो नित्याश्चाकाशादयः, तेषु ये वर्तन्ते धर्माः, तेषु शब्देतरानित्यनित्यवृत्तित्वं धर्मः, तस्यानधिकरणमनाधारः । स चासौ अनित्यवृत्तिधर्मश्चेति समासः । अत्र शब्देतरानित्यनित्ययुगलवृत्तिः धर्मः सत्ताद्रव्यप्रमेयत्वादिः शब्देतरानित्यनित्यवृत्तित्वानधिकरणेतिपदेन निरस्तः । अथ च यो नित्ये एव केवले विद्यते नित्यत्वस्थिरैकस्वभावत्वादिः, स चानित्यवृत्तीतिपदेन निरस्तः । अथ चानित्ये एव केवले यो धर्मोऽनित्यत्वादिः विद्यते, स नित्ये आत्मनि पक्षीकृतेऽसंभावादेव निरस्तः । एतावता शब्देतरानित्यनित्ययुगल. वर्ती एकैकनित्यमात्रानित्यमात्रवर्ती च धर्मः साध्यरूपतया निषिद्धः । अवशिष्टश्च साध्यधर्मो विश्वप्रतियोगिकः शब्दात्मान्योन्याभावः शब्दात्मान्योन्यत्वादिर्वा पक्षे आत्मनि सिध्यति । ननु सिध्यतु विश्वप्रतियोगिकः शब्दात्मान्योन्याभावादिः पक्षे, परं शब्दस्यानित्यत्वं कथं सिध्यतीत्याशङ्कय आहस च धर्म इति । स धर्मः शब्दात्मान्योन्याभावादिनित्ये आत्मनि बोधितः साधितः सन् शब्दस्यानित्यत्वमादाय पर्यवस्यति विश्राम्यति । यतः आत्मनि वर्त्तनेऽपि तस्य धर्मस्यानित्यवृत्तित्वं तदैव स्यात् , यद्यनित्यः शब्दः स्यात् । आत्मनो नित्यत्वात् । आत्मनित्यत्वे च वादिप्रतिवादिनोरवि
१ स च धर्मशब्दा इति ख पुस्तकपाठः । ।
Aho ! Shrutgyanam