________________
१६४
भुवनसुन्दरसूरिकृत टिप्पनसमेतं साध्यवद्धृत्तीति व्याख्यातम् । नित्यवृत्तित्वेत्यनेन विपक्षान्वयीति । अनधिकरणेत्यनेन यन्नेति । अनित्यवृत्तिधर्मवानित्यनेन साध्यवद्धृत्तितायुक्तमिति । आत्मेत्यनेन च साध्यवर्जिते इति । इति पदयोजना ॥
(भुवन० )-अथानुमानम् । आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवान् मेयत्वात् घटवत् । अत्र कारिकायां यादृक्षं लक्षणमुक्तं ताहगेवानुमानेऽपि दर्शयितुं श्लोकानुमानपदयोजनां विधत्ते-इदानीं श्लोकानुमानेति । श्लोकश्चानुमानं च श्लोकानुमाने, तयोः परस्परं पदयोजनिका । अत्र शब्देतरानित्येत्यनेनेति । वृत्तीत्यप्रेतनपदोक्तमपि द्वयोः संबन्धित्वादत्रापि संबध्यते । तेन शब्दादितरे ये अनित्याः तत्र वृत्तीत्येतावताऽपक्षसाध्यवद्वृत्तीति व्याख्यातम् । यतः शब्देतरानित्येषु यद्वर्तते तन्मूलानुमानापेक्षया सपक्षाः ये अनित्याः घटादयः तेषु वर्तते एव । नित्यत्तित्वेत्यनेन विपक्षान्वयीति व्याख्यातम् । यतो यन्नित्ये वर्तते तन्मूलानुमानापेक्षया विपक्षे गगनादौ वर्तते एवेति । अनधिकरणेत्यनेनेति । शब्देतरानित्यवृत्तित्वस्य अनधिकरणमिति भणनात् श्लोकमध्यस्थं यन्नेति व्याख्यातम् । युगलावृत्तित्वेनोभयोर्न वर्तत एवेत्यर्थः । अनित्यवृत्तिधर्मवानित्यनेनेत्यादि । योऽनित्यवृत्तिधर्मवान् स धर्मः साध्यं मूलानुमानापेक्षयाऽनित्यत्वम् । तद्वाननित्यः तत्र वर्तते एवेति भावः । आत्मेत्यनेनेति । आत्मा तदैव पक्षीकृतो यदि साध्यमनित्यत्वं, तेन वर्जिते पक्षे साध्यं साध्यते इति योजना ।
अथ व्यावृत्त्यचिन्ता-आत्मा अनित्यवृत्तिधर्मवानिति कृते सत्तया सिद्धसाधनम् । तदर्थं शब्देतरानित्यवृत्तिधर्मवानिति कृतम् । तथा च सत्ताव्यावृत्तिः । तस्याः शब्देऽपि वर्तमानत्वात् । तथापि द्रव्यत्वेन सिद्धसाधनम् । तदर्थं नित्यवृत्तित्वानधिकरणेति प्रक्षिप्तम् । द्रव्यत्वं नित्येष्वपि वर्तते । तथा चैवमनुमानं स्यात्, आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणधर्मवानिति । तथाप्येवंभूतधर्मस्य युगलावृत्तेरात्मनि आत्मत्वस्यैव संभवात्सिद्धसाधनम् । तदर्थमनित्यवृत्तीत्युक्तम् । ___ (भुवन०)-अथ व्यावृत्त्यचिन्तेति । व्यावृत्त्यानि व्यावर्तनार्हाणि यानि पदानि तेषामेतत्पदं किमर्थ प्रक्षिप्तमित्यादिरूपा चिन्ता व्यावृत्त्यचिन्ता । एवं सर्वत्रापि ज्ञेयम् । आत्मा अ. नित्यत्तिधर्मवानिति कृते सत्तया सिद्धसाधनमिति । सत्ता नित्यानित्ययोधर्मः, स चात्मन्यपि विद्यते एव । आत्मनि सत्तासाधनेऽनुमानमध्ययुक्तम् । आत्मनि सत्तायाः उभयोरपि सिद्धत्वात्। वदर्थ शब्देतरानित्येति । ये शब्दे धर्माः सन्ति तेभ्यः इतरे ये अनित्यधर्माः तद्वानात्मा । एवं
कृते सत्ताव्यावृत्तिः । सत्तायाः शब्देऽपि भावात् । तथापि द्रव्यत्वेन सिद्धसाधनमिति । द्रव्यत्रं शब्दे नास्ति । शब्दस्य वैशेषिकादिमतेनाकाशगुणत्वात्, अनित्येष्वपि वर्तमानत्वाच्च । तेन तद्वानात्मा स्यात् । तथा च सिद्धसाधनं स्यात् । द्रव्यत्वस्यात्मनि वादिप्रतिवादिनोरुभयोरपि सिद्धत्वादित्यर्थः । तदर्थ नित्यत्तित्वानधिकरणेति प्रक्षिप्तम् । द्रव्यत्वं नित्येष्वपि वर्तते इति ।
Aho ! Shrutgyanam