________________
महाविद्याविवरणम् ।
१६३ १ अपक्षसाध्यवद्धृत्तिविपक्षान्वयियन्न तत् ।
साध्यवद्धृत्तितायुक्तं साध्यते साध्यवर्जिते ॥१॥ आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवान् मेयत्वात् घटवत् ।
तस्यायमर्थः-अपक्षो यः साध्यवान् सः अपक्षसाध्यवान् । सपक्षः इत्यर्थः। तत्र सपक्षे वर्तमानं यत् तत् अपक्षसाध्यववृत्ति । विपक्षे अन्वयो यस्य तत् विपक्षान्वयि । अपक्षसाध्यववृत्ति च तत् विपक्षान्वयि च इत्यपक्षसाध्यवद्धृत्तिविपक्षान्वयि । तत् यत् न भवति तत् अपक्षसाध्यववृत्तिविपक्षान्वयियन्न । सपक्षविपक्षावृत्तीत्यर्थः । तत्साध्यते इति संबन्धः। किंभूतम् । साध्यववृत्तितायुक्तम् । साध्यवान् सपक्षः, तत्र वर्तते इति साध्यववृत्ति, तस्य भावः इति यावत् ।
( अथ प्रथमानुमानम् ।) तत्र प्रथमं तावच्छब्दानित्यत्वानुमानस्य सङ्ग्राहकं श्लोकं व्याचिख्यासुराह-अपक्षेतीति ।
" अपक्षसाध्यवद्वृत्तिविपक्षान्वयियन तत् ।।
साध्यवद्वत्तितायुक्तं साध्यते साध्यवर्जिते " ॥१॥ __ अस्यायमर्थः-अपक्षो यः साध्यवान् सोऽपक्षसाध्यवान् सपक्षः इत्यर्थः । तत्र सपक्षे घटादौ वर्तमानं यत्तत् अपक्षसाध्यवद्वृत्ति । विपक्षे गगनादौ अन्वयो यस्य तद्विपक्षान्वयि । अपक्षसाध्यवइत्ति च तद्विपक्षान्वयि चेति अपक्षसाध्यवत्तिविपक्षान्वयि । तद्यन्न भवति तदपक्षसाध्यवद्वृत्तिवि. पक्षान्वयियन्न । सपक्षविपक्षावृत्तीत्यर्थः । तत्साध्यते इति संबन्धः । किंभूतम् । साध्यवद्वृत्तितायुक्तं साध्यवान्सपक्षः, तत्र वर्तते इति साध्यवद्वत्ति । तस्य भावः साध्यवत्तिता, तया युक्तम् । ननु अपक्षसाध्यवद्वत्तीत्यादिभणनात् महाविद्यानुमानसाध्यस्य सपक्षे विपक्षे च वृत्तिता निषिद्धा। तत. स्तत्साध्यवद्वृत्तितेत्यादिभणनात् साध्यवद्वृत्तितायुक्तं साध्यवर्जिते विपक्षे यदि साध्यते, तदा सपक्षविपक्षवृत्तितैव तस्य स्यात् । तथा च कारिकापूर्वार्धोत्तरार्द्धयोर्विरोधः एवापद्यते इति चेत् । न । अत्र सपक्षविपक्षयोरवृत्तिता या प्रोक्ता सा युगलावृत्तित्वेन । तथा च सति यो धर्मो विपक्षे साध्यते स सपक्षे नास्ति । शब्दात्मान्यान्यत्वादेः शब्दात्मभ्यामन्यत्र घटादिसपक्षेऽवर्तनादिति स सपक्ष. विपक्षयुगलावृत्तिरुच्यते । एवंभूतश्च विपक्षे साध्यते । ननु तर्हि स धर्मः शब्दात्मान्यान्यत्वादिः साध्यवद्वृत्तिः कथम् । सत्यम् । अत्र शब्दात्मान्यान्यत्वधर्मस्य शब्दात्मनोरन्यत्रावर्तनात् साध्यवद्धत्तित्वं तदेव, यदि शब्दः साध्यवान्स्यादिति परिशेषप्रमाणेन शब्दः एव साध्यवान् जातः । तथा च स धर्मः साध्यवति शब्दे वर्तमानो भवतीति साध्यवद्वत्तित्वं तस्य धर्मस्येति न कश्चिद्विरोधगन्धोऽपि बुद्धिमद्भिरपि शङ्कितुं शक्यते इति ।
इदानी लोकानमानपढयोजनिका-अत्र शब्देतरानित्येत्यनेन अपक्ष
Aho ! Shrutgyanam