________________
१६२
भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । पक्षत्वेन संबन्धाभावात्कथं तदिति चेत् । न ।यद्रजतमभात् सैषा शुक्तिरित्यत्र रजतस्य शुक्तिकोपलक्षकत्ववदुपपत्तिः, लिप्यक्षराणां वर्णोपलक्षकत्वमिव वेदान्तिमते मायाया ब्रह्मोपलक्षकत्वमिवेति । न च रजतादीनां शुत्त्यादिविशेषणत्वात् दृष्टान्तदान्तिकयोवैषम्यमिति वाच्यम् । विशेषणस्य विद्यमानत्वव्याप्तत्वात्, विद्यमानत्वव्यापकनिवृत्तौ निवर्तनादिति ।
(भुवन०)-नोदकः आह-ननूपलक्षणत्वमपीति । उपलक्षणत्वमपि कदाचित्संबन्धिनि कदाचिद्येन सह संबन्धः स्यात्तत्र भवति । “ कदाचित्संबद्धं व्यावर्तकमुपलक्षणमिति तल्लक्षणात् । कथं तदिति । तदुपलक्षणत्वं कथमित्यर्थः । आचार्यः आह-न। यद्रजतमित्यादि । यत्पूर्व भ्रान्तावस्थायां रजतमभात् प्रत्यभात् , सैषा शुक्तिरित्यत्र रजतस्य शुक्तिकोपलक्षकत्ववत् शुक्तिकाप्रत्यायनमिव पूर्वोक्तोपलक्षणत्वोपपत्तेः । अयं भावः यथा पूर्वप्रतिभातरजतेन शुक्तिकोपलक्ष्यते, तथा पक्षस्य पक्षीकरणेन विपक्षसपक्षयोरपि पक्षीकरणमुपलक्ष्यते इति । अथ पुनरपि दृष्टान्तद्वयेनैतदेव द्रढयति-लिप्यक्षराणां वर्णोपलक्षकत्वमिवेति। लिप्यक्षराणां गौर्जरकार्णाटान्ध्रादिलिप्यक्षराणां पुस्तकादिलिखितानां श्रोतृप्राह्यज्ञानमयवर्णोपलझकत्वमिव । वेदान्तिमते इत्यादि । वेदान्तिमते संसाररूपमायायाः अविद्येति नाम्न्याः यथा ब्रह्मोपलक्षकत्वं परब्रह्मोपलक्षकत्वमित्यर्थः । अयमत्र भावः । असत्यं हि सत्याधारे भवति, शुक्तिकायां यथा रजतप्रतिभासः । एवमत्रापि मायायाः प्रपञ्चरूपायाः असत्यत्वेन केनापि तदाधारण सत्येन भाव्यम् । सत्यं च विचार्यमाणं ब्रह्मैव, अन्यस्य सर्वस्य प्रपञ्चान्तर्गतत्वादित्यनेन प्रकारेण मायाया ब्रह्मोपलक्षकत्वमित्यर्थः । न च रजतादीनामित्यादि । पक्षपक्षीकरणस्योपलक्षणत्वेन विपक्षसपक्षयोः पक्षीकरणं दान्तिकं, रजतस्य शुक्तिकोपलक्षकत्वं दृष्टान्तः, तत्र च यद्रजतमभात् सैषा शुक्तिरित्येवं रजतं विशेषणभूतं सत् शुक्तिकां गमयति, पक्षपक्षीकरणं चोपलक्षणत्वेन विपक्षसपक्षयोः पक्षीकरणं गमयतीत्यतो दृष्टान्तदाान्तिकयोः वैषम्यमिति न च वाच्यम् । विशेषणस्य विद्यमानत्वव्याप्तत्वादिति । विशेषणस्य विद्यमानत्वेन व्यापकेन व्याप्तत्वात् । " सर्वदा संबद्धं व्यावर्तकं विद्यमानं विशेषणमिति तल्लक्षणात् । व्याप्यत्वं च यद्यद्विशेषणं तत्तद्विद्यमानमिति तयोर्व्याप्तिसद्भावादित्यर्थः । विद्यमानत्वव्यापकनिवृत्तौ निवर्तनादिति । विद्यमानत्वस्य व्यापकस्य निवृत्तौ विशेषणस्य ल्याप्यस्य निवर्तनात् । विद्यमानत्वं हि व्यापक रजतादेनिवृत्तं सत् विशेषणत्वमपि रजतादेर्निवर्तयति । तस्माद्रजतादिकमुपलक्षणत्वेनैव स्वीकार्य, न तु विशेषणत्वेन । उपलक्षणं वा अविद्यमानमपि स्यात्, न तु विशेषणम् । तस्माद्रजतादिवदुपलक्षणत्वेन विपक्षसपक्षयोः पक्षीकरणं युक्तमेवेत्यर्थः ।
(अथ प्रथमानुमानम् ।) तत्र प्रथमं तावत् शब्दानित्यत्वानुमानम् । तत्रापि तस्यानुमानस्य संग्राहकः श्लोको यथा-अपक्षेति ।
१ 'पपत्तेः । लिइति क पुस्तकपाठः। २ विधमानव्या इति ख पुस्तकपाठः । ३ टान्धीलिप्य इति त पुस्तकपाठः। ५ परमत्र इति त पुस्तकपाठः । ५ गमयति । अतों इति ध पुस्तकपाठः ।
Aho ! Shrutgyanam