________________
महाविद्याविवरणम् ।
१६१
( भुवन० ) — शास्त्रैकदेशसंबद्धमित्यादि । प्रमाणप्रमेयादिसर्ववस्तुप्रतिपादकस्य शास्त्रस्य यः एकदेशः प्रमाणप्रतिपादनादिरूपः तेन संबद्धम् । यथा प्रमाणतद्भेदतदन्यलक्षणादिप्रतिपादनपरं न्यायसारादि प्रकरणम् । शास्त्रकार्यं मोक्षादि । शास्त्रस्य मुख्यत्वेन मोक्षार्थत्वात् । तस्मादन्यत्कार्य शास्त्रकार्यान्तरं प्रमाणप्रमेयप्रतिपादनादिरूपम् । तस्मिन्स्थितम् । एवं विधं ग्रन्थभेदं विपश्चितो विद्वांसः प्रकरणं प्राहुरित्यर्थः ।
तस्य सर्वस्येति । तस्य प्रकरणलक्षणस्येत्यर्थः । शास्त्रीयैरेव तैरित्यादि । शास्त्रीयैः शाखसंबन्धिभिरेव तैः संबन्धप्रयोजनादिभिरिदमपि तद्वत् संबन्धप्रयोजनादिवत् । संबन्धश्चात्र विषयविषयिभावादिः । विषयो महाविद्यानुमानानि, विषयी चैतत्प्रकरणमेव, प्रयोजनं च शब्दानित्यत्वादिसाधनरूपमत्र मन्तव्यम् । तस्मात्तद्वत्त्वेन प्रकरणमेवेदम् । संबन्धप्रयोजनादीनां भिन्नोक्तौ पृथगुक्तौ ग्रन्थबाहुल्येन प्रकरणत्वव्याघातात् । संबन्धप्रयोजनादीनां तु पृथगुक्तौ शास्त्रमेवेदं स्यात्, न तु प्रकरणमित्यर्थः ।
यतः
पक्षत्वं हि कचिदपि भजत्यत्र मिथ्या सपक्षः पक्षीकार्यः कचिदपि विपक्षोऽपि वालीक एव । पक्षः साक्षात्कचिदपि भजत्यन्यपक्षस्य कक्षामेवं पक्षः श्रयति बहुधा रूपभेदं नवीनम् ॥ विपक्षपक्षयोस्तु पक्षीकरणमव्यभिचरणार्थमेव । तयोस्तद्व्याहतमिति - चेत् । न । उपलक्षणत्वेन अविरोधात् ।
( भुवन ० ) - पक्षत्वं हि कचिदपि भजत्यत्र मिथ्या सपक्षः इत्यादि । मूलानुमानसपक्षो घटादिः कापि मिथ्यैव पक्षत्वं भजते । स्वाभिमतसाध्यस्य शब्दरूपे पक्षे एव सिद्धेः मिध्येत्युक्तम् । एवमग्रेऽपि पदसाफल्यं स्वयं ज्ञेयम् । कचिदपि मूलानुमानविपक्षोऽपि गगनादिः पक्षी - कार्यः । साक्षात्पक्षः शब्दरूपः क्वचिदप्यैन्यपक्षस्य सपक्षादेः कक्षां प्रतिज्ञां भजते । सपक्षविपक्षादिकं वा पक्षीकृत्य प्रवर्तमानमहाविद्यासु शब्दरूपपक्षस्यापि सपक्षत्वात् । विपक्षसपक्षयोस्तु पक्षीकरणमव्यभिचरणार्थमेवेति । अत्र महाविद्यायां विपक्षपक्षयोः पक्षीकरणमव्यभिचरणार्थम् । अयमर्थःपक्षस्यैव पक्षीकरणे पक्षे विपक्षे सपक्षे च वर्तनाद्धेतोर्व्यभिचारः स्यात् । ततः तन्निवर्तनाय विपक्षसपक्षयोः पक्षीकरणम् । तथा च व्यभिचारस्थानं विपक्षोऽपि यदि पक्षीकृतः, तर्हि विपक्षाभावात् क्वापि व्यभिचारो न भवेदित्यर्थः । तयोस्तद्व्याहतमिति चेदिति । तयोः विपक्षपक्षयोः तत्पक्षी • करणं व्याहतमिति चेत् इत्युक्ते आचार्य: आह-न । उपलक्षणत्वेनेत्यादि । पक्षपक्षीकरणस्योपलक्षणत्वेन विपक्षपक्षयोरपि पक्षीकरणस्याविरोधात् ।
ननु उपलक्षणत्वमपि कदाचित्संबन्धिनि भवति । विपक्षपक्षयोस्तु
१ शब्दस्वरूपे इति त पुस्तक पाठः । २ दप्यपक्ष' इति त पुस्तकेतरपुस्तकपाठः ।
Aho! Shrutgyanam