SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । (भुवन० )-महाविद्यावृत्तौ ग्रन्थकारोऽभिधेयपरिपाटीमाह-पदाक्षेपः पूर्वं तदनु परिपाटीविघटनमित्यादि । पदाक्षेपः पदव्याख्यापदविग्रहपदयोजनादिरूपः । परिपाटी क्रमः, तस्या विघटनं व्यावृत्त्यचिन्तेत्यर्थः । व्यावृत्त्यचिन्तायाः पदक्रमविघटनारूपत्वात् । विपक्षस्य परोद्भावितस्य स्वयं शङ्कितस्य वा व्यावृत्तिरेतावता पराशङ्काया व्यावृत्तिः । स्वार्थस्य शब्दानित्यत्वाद्यपर्यवसानलभ्यार्थस्य कथनम् । तेषां पदानां वृत्तिर्व्याख्या साध्यधर्मदृष्टान्तधर्मकथनादिरूपा कार्येत्यन्वयः । प्रतिभटं प्रतिवादिनं प्रति उपक्रम्य विरले वापि कापि स्थले अधिकारविशेषे इत्यर्थः । इत्येवं प्रकारेण नः अस्माकं विवरणं वृत्तिरर्थव्याख्याविधौ समर्थ भवतीत्यर्थः । यतोऽन्यत्रापि विवरणलक्षणमेवमेव भैरूपितम् ___" उपोद्घातः पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं व्याख्या तन्त्रस्य षडिया ॥"-इति विवक्षितप्रकरणसिध्द्यर्थ या चिन्ता सा उपोद्घातः । तथा चोक्तम्" चिन्तां प्रकृतसिद्धयर्थामुपोद्घातं प्रचक्षते"। -इति ॥ शेषं तु सुगमम् ॥ ३॥ इह खलु केचित्संबन्धप्रयोजनाद्यनभिधानेन असमीचीनत्वमाक्षिपन्ति । तथाहि-प्रकरणेनापि प्रवर्तमानेन किमपि प्रतिपाद्यं संबन्धं वा कमप्यपेक्ष्य प्रवर्तनीयम् । यतः ( भुवन० )-ननु संबन्धप्रयोजनाद्यभिधानाभावेन प्रकरणमेवेदं न स्यादित्याशङ्कतेइह खलु केचित्संबन्धप्रयोजनाधनभिधानेनेत्यादि । संबन्धो विषयविषयिभावलक्षणो वाच्यवाचकभावलक्षणो वा । प्रयोजनं अनन्तरपरंपरभेदभिन्नं कर्तृश्रोत्रसंबन्धि, तयोरनभिधानेन असमीचीनत्वमाक्षिपन्ति उद्भावयन्ति । केऽपीति संबन्धः । तथाहि-प्रकरणेनापीत्यादि । प्रकरणेनापि प्रतिपाद्यमभिधेयं संबन्धं वा पूर्वोक्तमपेक्ष्य प्रवर्तनीयम् । " शास्त्रैकदेशसंबद्धं शास्त्रकार्यान्तरे स्थितम् ।। __ आहुः प्रकरणं नाम ग्रन्थभेदं विपश्चितः" इति हि तल्लक्षणात् । अत्र च तस्याभावादिति । तदपि न विद्धन्मानसमानन्दयति । तस्य सर्वांत्र सत्त्वात् । तथाहि-शास्त्रप्रतिपादिताथैकदेशसंक्षेपकं हि प्रकरणम् । इदमपि तथा । अतः शास्त्रीयैरेव तैरिदमपि तद्वत् । भिन्नोक्तौ ग्रन्थबाहुल्येन प्रकरणत्वव्याघातात् । तस्मात्साधुरेवारम्भः । अत्रापि छलप्रतिवादिनः सर्वमयथावन्मन्यमानस्य प्रमाणेन पूर्व मुखमुद्रणार्थं पक्षस्य तावदनेकत्वमुदाहरणैरेव सूचितम् । १ शङ्कयां इति ध पुस्तकपाठः । २ प्रतिरू' इति ध पुस्तकपाठः। ३ अपोद्धा इति त ध पुस्तकपाठः । ४ सिद्धयर्थ मपों इति त ध पुस्तकपाठः। ५ आदितः 'प्रवर्तनीयम् । यतः' इत्यन्तः ग्रन्थांशः क पुस्तके नास्ति। ६ "न्तरपरभे' इति ब पुस्तक पाठः। ७°मानसमानं पदं दर्शयति । तस्य इतिक पुस्तकपाठः। ८ 'सर्वस्यास्य स इति क पुस्तकपाठः। ९ प्रतिपादनैकदेश इति क पुस्तकपाठः । १० भित्रोक्तैः ग्रन्थ इति क पुस्तक पाठः। Aho! Shrutgyanam
SR No.034203
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorBhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy