________________
महाविद्याविवरणम् ।
१५९ एवंविधं शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवानित्यादिरूपं महाविद्यासाध्यं शब्दस्यानित्यतां विना पक्षीकृते आत्मनि न संभवति । तस्माच्छब्दोऽनित्यः स्वीकार्यः इत्येवंविधपारिशेष्याच्छब्दस्यानित्यत्वरूपसाध्यसिद्धिः स्यादिति । परिशेषलक्षणं च “प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः परिशेषः" इति ज्ञेयम् । एवं सर्वमहाविद्यानुमानेषु विवक्षितसाध्यसिद्धिर्विधेयेति पद्यार्थः ।
इह हि सर्वः कोऽपि ग्रन्थारम्भे अभीष्टदेवतानमस्कारपूर्व प्रवर्तते इति पूर्वपुरुषमार्गमनुस्मरन् कुलार्कपण्डितनिर्मितमहाविद्यावृत्तिं चिकीर्षुर्वृत्तिकारः आदावभीष्टदेवतानमस्कारमाह-श्रुतिमयतनु केचित्केचिदानन्दरूपमित्यादि । तत्स्वरूपं परमात्मरूपं अहं नमामि । तत्कि । यदभिदधति । के कर्तारः । केचित् नित्यस्फोटवादिनो वैयाकरणाः। किंविशिष्टम् । श्रुतिमयेति । श्रुतयो वेदाः ता एव रूपं यस्याः तन्वाः सा श्रुतिमयी, तथाविधा तनुर्यस्य तत्तथा । केचिद्वेदान्तादिमतानुसारिणः आनन्दरूपं आनन्दः एव रूपं स्वरूपं यस्य तत्तथा । केचिन्नैयायिकादयो विगलिततनु अशरीरमित्यर्थः। तथा केचित्सांख्यादयः अच्छं निर्मलमित्यर्थः । पुनः किंविशिष्टं। जन्मेत्यादि। जन्म जननं, स्थितिः सावधिकमवस्थानं संसारदशायामवस्थानमित्यर्थः । लयो विपत्तिः । तैः कृतो यः परितापः, तस्य यः आरम्भः, तेन हीनम् । एतावता जन्मस्थितिविनाशरहितमिति यावत् । एवं. विधं च ब्रम्हस्वरूपं योगिनामेव गम्यं, न त्वस्मदादीनामित्यर्थः । ग्रन्थान्तरेऽपि चैवमेव परमात्मस्वरूपं प्रत्यपादि । तथाहि
" नेन्दोः कला न गिरिजा न कपालशक्ति
नोंक्षा न भस्म न जटा न भुजङ्गहारः । यस्यास्ति नान्यदपि किञ्चिदुपास्महे त
द्रूपं पुराणमुनिशीलितमीश्वरस्य ॥" अन्यत्रापि । “ अपाणिपादो ह्यमैनो ग्रहीता " इत्यादि । अपरत्र च “निर्मलनिश्चलनिष्क्रियरूपमित्यादि । इतरत्र च-" न रूपं नो गन्धः" इत्यादि ॥१॥
महाविद्यानिगूढार्थदर्शनी दीपिका मया।
क्रियते धीमतामन्तस्तमोविच्छित्तिहेतवे ॥२॥ (भुवन० )-महाविद्यावृत्तिरीदृशी मया आरभ्यमाणास्तीति वाच्यं श्लोकं वृत्तिकृदाहमहाविद्यानिगूढार्थेत्यादि । स्पष्टमेतत् ॥२॥
पदाक्षेपः पूर्व तद्नु परिपाटीविघटनं
विपक्षव्यावृत्तिस्तद्नु तदनु स्वार्थकथनम् । ततस्तेषां वृत्तिः प्रतिभटमुपक्रम्य विरले
स्थले कार्येत्येवं विवरणमिदं नः प्रभवति ॥३॥ १ पालभुक्तिः इति ध पुस्तकपाठः । २ दो जवनो ग्रं इति पाठः श्वेताश्वतरोपनिषदि। ३ दि । परत्र च इति ध पुस्तकपाठः ।
Aho ! Shrutgyanam