________________
१५८
भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । अर्थतस्य व्याख्या । यत्र मूलानुमानं मुख्यानुमानं अन्वयव्यतिरेकि स्यात्, तत्र महाविद्यानुमानं प्रयोज्यम् । किंविशिष्टम् । केवलान्वयि । तथाहि-अनित्यः शब्दः कृतकत्वात् घटवत् । व्यतिरेके गगनमित्यत्रान्वयव्यतिरेकिणि मूलानुमाने महाविद्यानुमानं यथा-आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणेत्यादि । इदं च केवलान्वय्येवेति श्लोकार्थः । महाविद्यानुमानेषु सर्वेष्वेते भावा विचार्याः । तथाहि
शब्दस्यास्थिरतोपलक्षणमिदं साध्यं तु चित्तेप्सितं
दृष्टान्ताय च केवलान्वयितया स्थाप्याः पदार्थाः समे । सर्वत्रैव यथार्थसिद्धि युगलावृतिर्विचार्या विधे
त्याद्यं सर्वमवेक्षणीयमखिलप्रौढानुमानेष्विह ॥ ७ ॥ अत्र महाविद्यानुमानेषु यत् शब्दस्यानित्यता साध्यते तदुपलक्षणम् । तेनानेन प्रकारेण स्वचितेप्सितं नित्यत्वानित्यत्वसत्त्वासत्त्वपौरुषेयत्वापौरुषेयत्वसकर्तृकत्वाकर्तृकत्वादि सर्व साधनीयम् । तत्र शब्दस्यानित्यतासाधनाय विपक्षं पक्षीकृत्य महाविद्यानुमानं दर्श्यते । तथाहि आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृक्तिधर्मवान् मेयत्वात् घटादिवत् । तथा अनेनैवानुमानेन श्रुतेः पौरुषेयत्वं साध्यते । तथाहि-आत्मा श्रुतीतरपौरुषेयापौरुषेयवृत्तित्वरहितपौरुषेयनिष्ठाधिकरणं मेयत्वात् घटादिवत् । एवमनेन प्रकारेणान्यदपि सर्वानुमानैः सर्व साधनीयम् । दृष्टान्तायेत्यादि । अत्र महाविद्यानुमानेषु सर्वे नित्या अनित्याश्च पदार्थाः तद्धर्माश्च दृष्टान्तीकार्याः । पक्षं पक्षतुल्यं च वर्जयित्वा पक्षतुल्यानां पक्षवत्सन्दिग्धसाध्यवत्त्वात् पक्षे विवक्षितसाध्यसाधने पक्षतुल्येऽपि तत्साध्यसिद्धेश्च । अत्र च सर्वेऽपि सपक्षाः कुत इत्याशङ्कायां केवलान्वयितयेत्युक्तम् । महाविद्याहेतोः केवलान्वयित्वात् , केवलान्वयिनि च विपक्षाभावात्, सर्वेऽपि पदार्थाः सपक्षाः सपक्षा एव । सर्वत्रैवेत्यादि । सर्वमहाविद्यानुमानेषु प्रायो युगलावृत्तिर्विचार्या त्रिधा । तथाहि-यो धर्मों नित्ये एव केवले वर्तते, न अनित्ये, सोऽपि नित्यानित्यरूपे युगले न वर्तते, । तथा अनित्ये एव केवले यो धर्मों वर्तते न नित्ये, सोऽपि नित्यानित्ययुगले न वर्तते । तथा यो नित्ये अनित्येऽपि च न वर्तते, सोऽपि नित्यानित्ययुगले न वर्तते । आत्मा शब्देतरानित्यनित्यवृत्तित्वरहितानित्यवृत्तिधर्मवानित्यत्र चानुमाने पक्षीकृते आत्मनि साध्यो धर्मः शब्दात्मान्यान्यत्वादिः । स च नित्ये आत्मनि वर्तते, न शब्देतरानित्ये । ततः स शब्देतरानित्यनित्यरूपयुगलावृत्तिरुच्यते । अत्र च दृष्टान्ते घटादौ विचार्यमाणा घटत्वादयो धर्माः घटादिरूपेऽनित्ये एव वर्तन्ते, न नित्ये । तेऽपि शब्देतरानित्यनित्यरूपयुगलावर्तिनः उच्यन्ते । तथा काप्युभयत्राप्यवर्तिनो ये भवन्ति तेऽपि युगलावर्तिनो भवन्तीत्यर्थः । इत्यादि सर्व यथार्थसिद्धि अर्थसिद्धयनतिक्रमेण विचार्यमिति काव्यार्थः ।
एवंविधं साध्यमनित्यतां विना __ शब्दस्य नोत्पद्यत एव तस्मात् । शब्दोऽस्थिरः स्यादिति पारिशेष्यात्
सर्वानुमानेष्विह साध्यसिद्धिः ॥ ८॥ १ तुल्ये तत्सा इति ध पुस्तकपाठः । २ नित्यपुग इति ध पुस्तकपाठः।
Aho ! Shrutgyanam