SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ३ परिशिष्टम्। अर्थ महाविद्याविवरणम्। श्रीभुवनसुन्दरसूरिविरचितटिप्पनसमेतम् । श्रृंतिमयतनु केचित्केचिदानन्दरूपं विगलिततनु केचित्केचिदच्छस्वरूपम् । अभिधति यदेकं तन्नमामीह जन्मस्थितिलयपरितापारम्भहीनं स्वरूपम् ॥ १॥ श्रीभुवनसुन्दरसूरिविरचितं महाविद्याविवरणटिप्पनम् । श्रियो धाम श्रीमजिनवरपदाम्भोजयुगलं गिरं देवीं चेतोऽभिमतफलदाने सुरमणीम् । नमस्कृत्यानन्दाद्गुरुचरणयुग्मं च विधिना महाविद्यावृत्तेः किमपि करवै टिप्पनमहम् ॥१॥ प्रायष्टीकाकृतैतस्या रहस्यं न प्रकाशितम् । ___ रहस्याख्यानपूर्व तद्वत्तिाख्यायते मया ॥२॥ महाविद्याबृहद्वत्तिर्व्याख्याता प्रायशो मया । विडम्बनस्य टीकायां विलोक्या सा तदर्थिभिः ॥३॥ अथ महाविद्या कथं समुत्पन्नेति वाच्यमार्याद्वयमुच्यते । __ भाट्टा नित्यं शब्द योगाद्या वादिनस्त्वनित्यं च । प्रतिजानते ततोऽयं जातस्तेषां विवादोऽत्र ॥४॥ तत्तस्यानित्यत्वं प्रतिपादयितुं तु भाट्टवादीन्द्रान् ।। योगाचार्यों वर्यः कृतवानेतां महाविद्याम् ॥ ५ ॥ युग्मम्। अथ सामान्यतो महाविद्यास्वरूपप्रकाशकं पद्यत्रयमुच्यते । तथाहि अन्वयव्यतिरेकित्वोपेतमूलानुमाविधौ । महाविद्यानुमानं तु प्रयोज्यं केवलान्वयि ॥ ६ ॥ १ आदर्शपुस्तकस्य आदौ अन्ते वा ग्रन्थकर्तुर्नामोल्लेखः नोपलभ्यते । २ इत आरभ्य 'विप्याराण वर्णोपलक्षकत्वमिव' (पृ. १६२) इत्यन्तः ग्रन्थः ख पुस्तके नास्ति, तस्य प्रथमपत्रस्य लप्सत्वात् । Aho! Shrutgyanam
SR No.034203
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorBhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy