________________
३ परिशिष्टम्। अर्थ महाविद्याविवरणम्।
श्रीभुवनसुन्दरसूरिविरचितटिप्पनसमेतम् । श्रृंतिमयतनु केचित्केचिदानन्दरूपं
विगलिततनु केचित्केचिदच्छस्वरूपम् । अभिधति यदेकं तन्नमामीह जन्मस्थितिलयपरितापारम्भहीनं स्वरूपम् ॥ १॥
श्रीभुवनसुन्दरसूरिविरचितं महाविद्याविवरणटिप्पनम् ।
श्रियो धाम श्रीमजिनवरपदाम्भोजयुगलं
गिरं देवीं चेतोऽभिमतफलदाने सुरमणीम् । नमस्कृत्यानन्दाद्गुरुचरणयुग्मं च विधिना
महाविद्यावृत्तेः किमपि करवै टिप्पनमहम् ॥१॥ प्रायष्टीकाकृतैतस्या रहस्यं न प्रकाशितम् । ___ रहस्याख्यानपूर्व तद्वत्तिाख्यायते मया ॥२॥ महाविद्याबृहद्वत्तिर्व्याख्याता प्रायशो मया ।
विडम्बनस्य टीकायां विलोक्या सा तदर्थिभिः ॥३॥ अथ महाविद्या कथं समुत्पन्नेति वाच्यमार्याद्वयमुच्यते । __ भाट्टा नित्यं शब्द योगाद्या वादिनस्त्वनित्यं च ।
प्रतिजानते ततोऽयं जातस्तेषां विवादोऽत्र ॥४॥ तत्तस्यानित्यत्वं प्रतिपादयितुं तु भाट्टवादीन्द्रान् ।।
योगाचार्यों वर्यः कृतवानेतां महाविद्याम् ॥ ५ ॥ युग्मम्। अथ सामान्यतो महाविद्यास्वरूपप्रकाशकं पद्यत्रयमुच्यते । तथाहि
अन्वयव्यतिरेकित्वोपेतमूलानुमाविधौ ।
महाविद्यानुमानं तु प्रयोज्यं केवलान्वयि ॥ ६ ॥ १ आदर्शपुस्तकस्य आदौ अन्ते वा ग्रन्थकर्तुर्नामोल्लेखः नोपलभ्यते । २ इत आरभ्य 'विप्याराण वर्णोपलक्षकत्वमिव' (पृ. १६२) इत्यन्तः ग्रन्थः ख पुस्तके नास्ति, तस्य प्रथमपत्रस्य लप्सत्वात् ।
Aho! Shrutgyanam