________________
१५६
श्रीकुलार्कपण्डितप्रणीतं ११ असाध्यान्यवियुक्तान्यव्यावृत्तिर्वा प्रसाध्यते । शब्दः साध्याभावान्यैतद्वियुक्तान्यव्यावृत्तिमान् ।
१२ असाध्यतद्वियुक्तान्यव्यावृत्तिर्वा प्रसाध्यते ॥ ८॥ शब्दः साध्याभावतद्वियुक्तान्यव्यावृत्तिमान् ।
१३ पक्षेषु ये सन्ति विवादहीनाः
विहाय तानन्यतरः प्रसाध्यः। शब्दः संप्रतिपन्नैतन्निष्ठान्यधर्मवान् ॥
१४ पक्षोऽथवा साध्यविनाकृतेन, शब्दः साध्यव्यतिरिक्ततद्धर्मातिरिक्तधर्मवान् ।
१५ विच्छिद्य वाऽभाववदन्वितेन ॥९॥ शब्दः शब्दनित्यावृत्तिधर्मवान् । १६ अपक्षसाध्यवद्धृत्तिविपक्षान्वयि यन्न तत् ।
साध्याश्रयविपक्षान्यविपक्षे व्यतिरेकभाक् ॥ १० ॥ यथा-शब्दः शब्देतरानित्यनित्यावृत्त्याकाशान्यनित्यमात्रवृत्तित्वानधिकरणाकाशधर्मवान् ।
इति षोडशानुमानात्मिकदशश्लोकीमहाविद्यासूत्रं समाप्तम् ॥
Aho ! Shrutgyanam