SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ २ परिशिष्टम् । श्रीकुलार्कपण्डितप्रणीतं षोडशानुमानात्मकं दशश्लोकीमहाविद्यासूत्रम् । १ अपक्षसाध्यवद्वृत्तिविपक्षान्वयियन्न तत् । साध्यवद्वृत्तितायुक्तं साध्यते साध्यवर्जिते ॥ १ ॥ आत्मा शब्देतरा नित्यनित्यवृत्तित्वानधिकरणा नित्यवृत्तिधर्मवान् मेयत्वात् घटवत् ॥ १ ॥ २ अपक्षसाध्यवद्वृत्ति विपक्षे पक्षिते न यत् । साध्यवद्वृत्तितायुक्तं साध्यते तद्विपक्षगम् ॥ २ ॥ आकाशः आकाशशब्देतरानित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवान् । ३ अपक्षसाध्यवद्वृत्तिविपक्षान्वयवर्जितः । नानाविपक्षवृत्त्यन्यभिन्नधर्मोऽस्ति पक्षिते ॥ ३ ॥ शब्दः शब्दानित्यनित्यवृत्त्यन्यनानानित्यावृत्त्यशब्दधर्मवान् । ४ पक्षापक्षगतादन्यत्साध्यवद्वैधवर्जितम् । गन्धवन्तो गन्धवद्गन्धावृत्तिगन्धवद्वृत्त्यवृत्त्यन्यवन्तः । ५ पक्षापक्षगतादन्यत् साध्यवद्वृत्ति पक्षगम् ॥ ४ ॥ शब्दः शब्दाशब्दावृत्त्यनित्यवृत्तिधर्मवान् । ६ तत्तादात्म्यनिषेधान्यतत्स्था भावविरोधिता । नित्यत्वं स्वप्रतियोगिकान्योन्याभावातिरिक्तशब्दगताभावप्रतियोगि । ७ स्वीकृतानन्यवृत्तित्वसंपन्नान्यत्वसाधनम् ॥ ५ ॥ शब्दाधिकरणं शब्दाधिकरणादन्यत् । ८ पक्षापक्षविपक्षान्यवर्गादेकैकमुद्धृतम् । भिन्नं साध्यवतस्तद्वदुद्धृतावधिभेदिनः ॥ ६ ॥ अयं घटः एतद्वटाङ्कुरान्यान्यसकर्तृकान्यः । ९ तस्यैव तद्वृत्तेन योगो वात्र प्रसाध्यते । अयं घटः एतगुटाङ्कुरान्यान्यसकर्तृकावृत्तिमान् । १० तद्वृत्त्यवृत्तिरथवा प्रोद्धृतेऽत्र प्रसाध्यते ॥ ७ ॥ यथा -- अयं घटः एतद्वटाङ्कुरान्यान्यसकर्तृकधर्मविरही । Aho! Shrutgyanam
SR No.034203
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorBhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy