SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १५४ भुवनसुन्दरसूरिकृतं अथ वादिनः प्रतिभाक्षये जाते सति प्रतिवादिनो वा प्रतिभाक्षये कर्तव्ये महाविद्या प्रयोक्तव्येत्युच्यते भवता । तत्र वादिनस्तव प्रतिभाक्षये जाते एवंविधानुमानवल्लीवितानालम्बनेऽपि प्रतिवादिद्विरदप्रचण्डवाक्शुण्डादण्डाकृष्यमाणस्य कौतस्कुती शुभंयुता । प्रतिवादिनश्च प्रतिभाक्षयाय महाविद्याविद्याप्रयोगेऽपि प्रतिवादिनि जैने स्याद्वादतनुत्राणपरित्राणे वाचस्पतेरपि प्रवीणकृपाणीगा (?) जर्जरीभवन्ति । दूरे भवन्ति भवन्महाविद्याकोमलकमलनालप्रयोगाः। न हि कपोलपालीपरिस्रवन्मद्धारादुर्धरसिन्धुरयुवा दृढेरपि तन्तुप्रयोगैः रोर्बु पार्यते । ततश्च असंभाव्येऽपि विद्यात्वे महाविद्येति यत्कृतम् । नामैतस्या अपार्थ तन्मनुजो देवराजवत् ॥ ६॥ महाविद्याप्रयोगाणां क्षेपणाय विचक्षणैः । सेव्यं लघुमहाविद्याविडम्बनमिदं सदा ॥ ७ ॥ सुपर्वाभमिदं यस्य कण्ठपीठे लुठिष्यति ।। सर्पिण्योऽमर्महाविद्या न स्फुरिष्यन्ति तत्पुरः ॥ ८ ॥ श्रीसोमसुन्दरगुरोः शिष्यः श्रीभुवनसुन्दराचार्यः। कृतवानेतत्प्राज्ञप्रज्ञावृद्धयै विजयदायी ॥ ९ ॥ इति श्रीभुवनसुन्दराचार्यविरचितं लघुमहाविद्याविडम्बनं समाप्तम् ॥ - Aho! Shrutgyanam
SR No.034203
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorBhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy