________________
लघुमहाविद्याविडम्बनम्
१५३
अन्यच्च, अत्र आत्मनः पक्षत्वमेव न संगच्छते । “संदिग्धसाध्यवान्पक्षः" इति पक्षलक्षणम् । तच्चात्र नास्ति । अनित्यत्वस्य शब्दे साध्यत्वेन शब्दस्यैव संदिग्धसाध्यत्वात् । आत्मनो नित्यत्वेन उभयोः सिद्धस्य तथात्वाभावात् । न हि जले शैत्ये साध्यमाने अनल: शीतलः इति केनाप्युच्यते । ततश्चात्मादयोऽत्र पक्षत्वेनोपन्यस्ताः अपि अजागलस्तनकल्पत्वेन असत्कल्पाः एव ।
एवं सपक्षोऽपि पक्षीकृतो निर्लोठयितव्यः । युक्तेः समानत्वात् । यच्च साध्यं पक्षीक्रियते सदप्ययुक्तम् । साध्यं हि सर्वैरपि धर्मिणि साध्यते, न तु साध्ये । साध्यस्य संदिग्धसाध्यवत्त्वपक्षलक्षणाभावात् । एवमपि साधने घटोऽपि घटे, पटोऽपि पटे साध्यताम् । तार्किकव्यवहारपरित्यागात् ।
यथा साध्याभावमपि पक्षीकुरुते, तदप्यसमीचीनम् । सर्वथा असतो निरुपाख्यत्वेन पक्षीकर्तुमशक्यत्वात् । असदपि चेत् पक्षीक्रियते, तदा तुरङ्गशृङ्गगगनाम्भोरुहादयोऽपि पक्षीक्रियन्ताम् । युक्तेः समानत्वात् । तुच्छे साध्याभावेऽपि साध्यसाधने दरिद्रमेव विश्वं स्यात् ।
___ तत एषा महाविद्या पण्यस्त्रीव सविभ्रमा।
बाह्याडम्बरमात्रेण गोहेयेन्न न तत्त्वतः ॥ ३ ॥ अपिच महाविद्याहेतुः केवलान्वयी त्वया उच्यते । केवलान्वयित्वमेव विचारं नाञ्चति । यतः केवलान्वयित्वं सकलवस्तुनिष्ठत्वं त्वया अभ्युपेयते । तथाच सति प्रमेयत्वहेतुः प्रमेयत्वेऽस्ति न वा । अस्ति चेदात्माश्रयः । न चेत्तर्हि स्वस्मिन्नस्यैव अवर्तनात्केवलान्वयित्वभङ्गः । तथा महाविद्यासाध्यमपि सकलवस्तुनिष्ठं स्वीचक्राणम् । तथात्वे च महाविद्यासाध्यं महाविद्यासाध्ये विद्यते न वा । विद्यते चेत्तर्हि व्याघातः । न हि घटे घटो वर्तते एकस्मिन् तहयप्रसङ्गात् । नो चेत्केवलान्वयित्वभङ्गः एव । ततश्च
नानाभरणयुक्तापि दुर्भगस्त्रीव वीक्षिता।।
बाह्ययुक्तिगुणाप्यन्ते मोह............ ॥ ४ ॥ अति प्रसङ्गदूषणमपि महाविद्यायां स्पष्टमेव । यतोऽनेन प्रकारेण प्रमथनाथादीनामपि अनित्यत्वादिसाधनदर्शनात् भवतः स्वमन्दिरोदरविदारणोपायप्रसङ्गः । तथाहि-ईश्वरः स्वस्वेतरवृत्तिवानधिकरणासर्वव्यापकनिष्ठाधिकरणं मेयत्वात् घटवत् । अथवा आकाशस्य असर्वव्यापकत्वे एतदेवानुमानम्-आकाशः स्वस्वेतरवृत्तित्वानधिकरणासर्वव्यापकनिष्ठाधिकरणं मेयत्वात् घटवत् । अयं घटः एतद्घटान्योन्यसकर्तृकान्यः मेयत्वात् गगनवत् । अनेनानुमानेन तव भूभूवरादेः सकर्तृक(त्व) साधनाभिधाने अनेनैव चास्माभिरकर्तृकत्वमपि साध्यते । तथाहि-आकाशः आकाशाङ्कुरान्यान्याकर्तृकान्यो मेयत्वात् घटवत् । अपिच अनेनैव अनुमानेन ईश्वरस्यापि सकर्तृकत्वं साधयितुं शक्यते एव । तथाहि-अयं घटः एतद्बटेश्वरान्यान्यसकर्तृकान्यः मेयत्वात् घटवत् । एवं विधानुमानैश्च विप्रोऽपि शूद्रमुद्रावान् कर्तु शाशक्यते एव । तथाहि-विप्रः स्वस्वेतरवृत्तित्वानविकरणाशूद्रमुद्रावनिष्ठाधिकरणं मेयत्वात् घटवत् । तदेवं सर्वानुमानानि शब्दपरावर्तेन विपरीतानि कृत्वा वितण्डावादी निर्लोठनीयः । ततश्च
आप्तप्रणीतसिद्धान्तमार्गविप्लावकत्वतः ।
तमस्विनी महाविद्या सिद्धिसौधं न गच्छति ॥५॥ १ ' मोहयेत्' इति स्यात् । २ “तु' इति स्यात् । ३ अत्र आदर्शपुस्तके षडक्षराणि न विषन्ते । २०-२१ महाविया०
Aho! Shrutgyanam