________________
१ परिशिष्टम् श्रीभुवनसुन्दरसूरिविरचितं लघुमहाविद्याविडम्बनम् ।
स्याद्वादवादप्रबलप्रणाद
प्रणष्टदुर्वादिमदद्विपेन्द्रा। गी:सिंहका यस्य विभाति देवः
स वर्धमानः श्रियमातनोतु ॥ १॥ इह हि केऽपि दुराहङ्कारप्राग्भारपूरिताः श्रीसर्वज्ञोक्तहेयोपादेयविचारचातुरीदूरिताः सकलस्वाभीष्टवस्तुसाधनाय परपक्षनिषेधाय च स्वकपोलकल्पितान्येवंविधान्यनुमानानि प्रकटयन्ति । तथाहि-आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवान् मेयत्वात् घटवत् । अत्र पराहकारप्राग्भारतिरस्कारायोपक्रम्यते ।। ___ हहो वादिन , किमेतदनुमानम् । महाविद्यासत्कमिति चेत् । मैवम् । विद्यात्वमपि सावद्यस्य अस्यानुमानस्य विचार्यमाणं न संजाघटीति , दूरेऽस्तु हेत्वाभासः । केवलान्वयित्वेन व्यतिरेकन्यामेरभावात् । तथा साध्यमत्र अनित्यत्वं परमार्थतः । ततो यद्यदनित्यत्वं तत्तदश्रावणं, यथा घटपटादयः इति साध्यव्यापकश्चायमुपाधिः । शब्दस्य चानित्यत्वमद्यापि विवादास्पदीभूतम् । तस्मात्तेन व्यभिचाराभावात्सोपाधिरयं हेतुः ।। ___ अथ अत्रानित्यत्वं साध्यं न भवति, किन्तु शब्देतरानित्यनित्येत्यादिकम् । तस्य चोपाधिना व्याप्तिास्ति । शब्दत्वेन व्यभिचारादिति नायमुपाधिरिति चेत् । मैवम् । अस्य हनूमल्लोललाङ्गल लम्बस्यापि अनित्ये एव विश्रामात् । साध्यं च तदेव यद्विप्रतिपनं प्रति पक्षे मेयत्वेन साधयितुमभिप्रेतम् । तत्तु अनित्यत्वमेव ।
अथ च विरुद्धतापिशाचीजठरपिठरीप्रक्षिप्तोऽयं हेत्वाभासः । यतोऽत्र साध्यमनित्यत्वम् । तद्विरुद्धं च नित्यत्वम् । तदपि चानेन साधयितुं शक्यते एव । तथाहि-घटः शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवान् ।
अपरं च अनैकान्तिकत्वदुर्धरसिन्धुरकरप्रहारविधुरोऽप्ययं हेतुर्मेयत्वादिः। तथा हि-महावि. द्यासाध्ये महाविद्यासाध्यं विद्यते नवा। विद्यते चेत्, आत्माश्रयः । नो चेत्तर्हिमहाविद्यासाध्ये मेयत्वहेतोर्वर्तनात् महाविद्यासाध्यस्य चावर्तनात्, तस्यैव विपक्षवेन अनैकान्तिकः एव अयं हेतुः । तदेवं,
दोषत्रयत्रिपथगातरङ्गप्लाविते मुहुः।।
हेतुतृणे विलग्नोऽपि वादिन मयसि निश्चितम् ॥ २॥ किञ्चेयं महाविद्या केवलान्वयिव्याप्तिजीवितव्या । सैव चतुरचेतोभिश्चिन्त्यमाना नोपपद्यते । तथाहि-यात्प्रमेयं तत्तदनित्यं दृष्टमिति नियमो नास्ति । आकाशादौ प्रमेयत्वेऽपि नित्यत्वात् ।
१ वियत्व' इति प्र पुस्तकपाठः।
Aho ! Shrutgyanam