SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ प०३ १५१ महाविद्याविडम्बनम् । अथ प्रशस्तिः । . श्रीवीरः श्रेयसे भूयाच्चित्रकृच्चरितः सताम् । सिद्धार्थमपि सिद्धार्थतनयं यं विदुर्बुधाः ॥१॥ तत्पट्टमुकुटं श्रीमान सुधर्मगणभृद्वभौ। गनेव द्वादशाङ्गीयं यतो हिमवतोऽजनि ॥२॥ अभूवंस्तस्य संताने श्रीजगच्चन्द्रसूरयः । तदीयानुक्रमे चाथ भूरिसूरिपवित्रिते ॥३॥ श्रीमत्तपागणसरोजसरोजिनीशा भक्तिप्रकर्षविनमत्सकलावनीशाः । श्रीदेवसुन्दर इति प्रथिताभिधानाः सूरीश्वराः समभवन्भुवनप्रधानाः ॥ ४ ॥ ॥ युग्मम् ॥ अन्यासाध्यविशुद्धतीव्रतपसा विश्वत्रयोदयोतक त्तत्तादृग्यशसा प्रतापमहसाऽपास्तार्यमज्योतिषा । . संपूर्णागमधारणेन हरणेनोाः समग्राशिव प्रोतैश्च (?) युगप्रधानपदवीमासादयन् ये भुवि ॥५॥ श्रीमञ्चन्द्रकुले तदीयविलसत्पट्टोदयाद्रौ बुधा नव्याः केऽप्युदिताः स्फुरनिजगवा विश्वत्रयोदयोतिनः । भास्वद्गी:पतिमित्रतामुपगताः श्रीमङ्गलोल्लासिनः श्रीगच्छाधिपसोमसुन्दरवराचार्या विराजन्त्यमी ॥६॥ वादीन्द्रव्रजनिर्जयानलभरैर्ब्रह्माण्डभाण्डे परि क्षिप्य प्रौढयशःपयो गुणसितायुक्तं यदीयं विधिः । पाचं पाचमचिन्तनीयरसतां निन्ये तथा कोविदाः खादं स्वादमहर्निशं श्रुतिमुखैस्तृप्तिं यथा यान्ति न ॥ ७ ॥ तदीयकरमाहात्म्यजलवर्धिष्णुवैभवाः । श्रीसूरयस्त्रयो भान्ति सहकारतरूपमाः ।। ८॥ आद्या: श्रीमुनिसुन्दराव्हगुरवस्तेषु स्फुरत्कीर्तय स्तर्कव्याकरणादिशास्त्रनिपुणा राजन्ति यैर्निर्मितः । हस्ताष्टाग्रशतप्रमाणकलितो लेखः सकृजल्पितप्रोद्यन्नामसहस्रधारणकलोxxxxx॥९॥ १ इयं प्रशस्तिःद पुस्तके एव लब्धा । २ इतः परमार्शपुस्तकस्यैकं पत्रं लुप्तम् । अतोऽपूर्णवेयं प्रशस्तिः । Aho! Shrutgyanam
SR No.034203
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorBhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy