SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ भुवनसुन्दरसूरिकृतटीकायुतं श्रीसोमसुन्दरगुरुत्तमपादपद्म संसेविना भुवनसुन्दरसूरिणेयम् । वृत्तिः कृता स्वपरयोरुपकारहेतोः __सेव्या प्रमाणनिपुणैर्विजयोदयाय ॥ १ ॥ हषपुरनामनगरे देवश्रीपार्श्वनाथशुभदृष्टौ । व्याख्यानदीपिकेयं समर्थिता भवतु जयलक्ष्म्यै ॥२॥ षट्तर्कीपरितर्ककर्कशमतिश्चारित्रराजो यति विद्योत्तमरत्नशेखरमुनिर्वादीन्द्रवृन्दाग्रणीः । एतौ द्वावपि शुद्धबुद्धिविभवो टीकामिमां सादरं __ संशोध्य प्रथमप्रती गुणयुतौ संस्थापयामासतुः ॥ ३॥ ग्रन्थोऽयं विषमो मतान्तरगतो गूढार्थसार्यान्वितो व्याख्या नैव पटुः स्फुटार्थघटने नो संप्रदायस्तथा । तस्मान्मन्दमतिप्रबोधविधये स्पष्टार्थनिष्टविनी टीकेयं विहिता चिरं विजयतामन्विष्यमाणा बुधैः ॥४॥ इति श्रीजिनशासन-गगनाङ्गणनभोमणिषड्दर्शनीरहस्याभिज्ञशिरोमणि-सुविहिताचार्यचक्रचूडामणि-श्रीतपागच्छदारहारभट्टारक-प्रभुश्रीसोमसुन्दरसूरिशिष्यश्रीभुवनसुन्दरसूरिविरचितायां महाविद्याविडम्बनवृत्तौ व्याख्यानदीपिकायां दूषणविवेकव्याख्यानो नाम तृतीयः परिच्छेदः समाप्तः ॥ - ग्रन्थश्च संपूर्णः १ इत भारभ्य श्लोकचतुष्टयात्मिका ग्रन्थकर्तृप्रशस्तिः छ द पुस्तकयोर्न विद्यते । २ तपोगच्छ इति च पुस्तकपाठः । ३ इतः परं द पुस्तके निनलिखितानि प्रशस्तिपद्यानि वियन्ते। . . Aho ! Shrutgyanam
SR No.034203
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorBhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy