________________
महाविद्याविडम्बनम् ।
इति दृषणपाषाणजर्जरीकृतमूर्तयः ।
महाविद्याः क्षणं स्थातुं न क्षमन्ते रणाङ्गणे ॥ २१ ॥
( भुवन० ) —— पूर्वप्रतिपादितनिखिलदोषदूषितत्वं महाविद्याया निगमयति- इति दूषणेत्यादि । दूषणान्येव पाषाणाः, तैर्जर्जरीकृता मूर्तयो यासां तास्तथेति विग्रहः । वादरणाङ्गणे महाविद्याः क्षणमपि स्थातुं न क्षमन्ते, न समर्था भवन्तीत्यर्थः ॥ २१ ॥
अथ किमर्थं स्वाभिमतसकलप्रमेयसाधकमहाविद्यानिराकरणम् । जातीनामिव तासामाभासत्वख्यापनार्थम् । अन्यथा महाविद्याप्रयोक्तृणां शिष्याणां प्रतिवाद्युदीरितप्राचीनदूषणैः पराजयादिति ।
१०३
१४९
( भुवन ० ) - अन्वयव्यतिरेक्यनुमानसाध्यस्य स्वाभिमतस्य महाविद्यया अनायासेन साधयितुं शक्यत्वात्तन्निरासः किमर्थमित्यारेकते - अथ किमर्थमित्यादि । स्वस्य अभिमान सकलप्रमेयाणि नित्यत्वानित्यत्वादीनि तत्साधिकाः याः महाविद्याः तन्निराकरणं किमर्थमित्यन्वयः । प्रश्नं मत्वा सिद्धान्ती समाधत्ते - जातीनामिवेति । यथा जातीनां दूषणाभासत्वं, तथा महावि-द्यानां हेत्वाभासत्वख्यापनार्थे महाविद्यानिराकरणमिति भावः । विपर्यये बाधकमभिधत्तेअन्यथा महाविद्येति । अन्यथा यदि महाविद्यानामाभासत्वं न ख्याप्यते, तदा सम्यक् साधनत्वाच्छिष्या महाविद्याः प्रयुञ्जते । तथा च प्रतिवाद्युद्भावित दुष्परिहारपूर्वोक्तानैकान्तिकत्वादिदूषणैः शिष्याणां पराजयः प्रसज्येत । तस्मादाभासत्वख्यापनाय महाविद्यानिरासः समञ्जसः एवेति हृदयाभिप्रायः । एवं च साधनाभासत्वान्महाविद्या कथायां न प्रयोक्तव्येति शिष्यानुशिष्टिरादिष्टा भवति । किञ्च
यत्र यत्र परः प्रौढिप्रकर्षमवलम्बते ।
श्लाघ्यस्तत्तन्निरासार्थः प्रज्ञाभ्यासवतां श्रमः ॥ २२ ॥ योगीश्वरगुरोः शब्दविद्यामासाद्य तत्त्वतः ।
व्यत्त भट्टवादीन्द्रो महाविद्याविडम्बनम् ॥ २३ ॥
इति श्रीहरकिङ्करन्यायाचार्यपरमपण्डितवादीन्द्रविरचिते महाविद्याविडम्बने दूषणविवेको नाम तृतीयः परिच्छेदः ॥ ३ ॥
( भुवन ० ) - महाविद्याप्रयोक्तारो वयं सर्वत्र विजयिनः इति गर्वपर्वताधिरूढानां दुरभिमानभङ्गार्थमपि महाविद्यानिरासः कार्यः इत्याह- किंच यत्रेत्यादि । किंच प्रकारान्तरोक्तौ । यत्र यत्र परः प्रौढिशकर्ष पाण्डित्याभिमानमवलम्बते तत्तन्निरासार्थ: प्रज्ञाभ्यासवतां दुरधिगमग्रन्थादिविषयिणी या प्रज्ञा प्रतिभा गूढार्थविचारणादिरूपा तस्या: अभ्यासः पौनःपुन्येन परिशीलनं, तत्र तत्पराणां नराणां श्रमः श्लाघ्यो भवतीति योजना । इह यत्र यत्रेत्यत्र यच्छब्दपरामृष्टं तत्तनिरासेत्यत्र तच्छब्देन परामृश्यते । एतावता महाविद्यायां परस्य प्रौढिप्रकर्षे मत्वा महाविद्यानिरासाय श्रमः यः एवेत्यभिहितं भवति । तथा च महाविद्यानिरासेऽपरमपि प्रयोजनं प्रदर्शितमित्यर्थः ||२२||
Aho! Shrutgyanam