________________
१४८
भुवनसुन्दरसूरिकृतटीकायुतं (भुवन०)-भङ्गयन्तरेण परः आक्षिपते-अथ पक्षीकृतेति । यदि पक्षीकृतेत्यादिसा. ध्यधर्मः केवलान्वयित्वेनाभिमतः पक्षे शब्दे निष्ठो न वेति विवादं प्रकटीकृत्य, महाविद्यासाध्यस्य पक्षनिष्ठत्वारोपणाय अयं शब्दः इत्याद्यनुमिमीषे । तदेति। तदा महाविद्यासाध्यं भवतु, महाविद्यासाध्यस्य पक्षशब्दनिष्ठत्वं तु कौतस्कृतमितिरूपा अर्थान्तरता दुर्वारैवेत्यर्थः । अर्थान्तरतो. पपादनाय युक्तीः प्रयुङ्क्ते-न हि पक्षीकृतेति । न हि पक्षीकृतेत्यादिमहाविद्यासाध्यमेवपक्षीकृतशब्दनिष्ठत्वं, किन्तु महाविद्यासाध्यस्य पक्षीकृतशब्दनिष्ठत्वं धर्मः । धर्मधर्मिणोश्च वैशेषिकादिदर्शने भेदान्न तदेव तदित्यर्थः । नापि तस्येति । पक्षीकृतशब्दनिष्ठत्वं तस्य पक्षीकृतशब्दतदितरेत्यादिसाध्यस्य नातिव्यापकम् । कुतो न व्यापकमत्राह-तस्येति । तस्य पक्षीकृतेत्यादिप्रकृतसाध्यस्येत्यर्थः । पक्षीकृतशब्दनिष्ठत्वस्येति । पक्षीकृतशब्दनिष्ठत्वं हि पक्षितशब्दनिष्ठे एव अस्ति, न तु गगनादाविति । यत्र पक्षीकृतेत्यादि साध्यं तत्र पक्षीकृतशब्दनिष्ठत्वमिति व्याप्तेरभावात् पक्षीकृतशब्दनिष्ठत्वं पक्षीकृतेत्यादिसाध्यस्य नापि व्यापकमित्यर्थः । पक्षीकृतशब्दनिष्ठत्वस्य गगनादावपि वर्तमानत्वोपगमे दोषं भाषते-अन्यथेति । तस्य पक्षीकृतशब्दनिष्ठत्वस्य योऽभावः, तदप्रसिद्धौ तत्रापि पक्षीकृतशब्दनिष्ठत्वेऽपि विवादानुपपत्तिः। अयं परमार्थः-यदि पक्षीकृतशब्दनिष्ठत्वं गगनादावपि स्यात्, तर्हि केवलान्वयित्वेन महाविद्यासा• ध्यवत् तस्य सर्वत्र सद्भावात्, महाविद्यासाध्ये पक्षीकृतशब्दनिष्ठत्वमस्ति न वेति विवादः एव न भवेदिति । युक्त्यन्तरेण अर्थान्तरतामेव समर्थयते-नापि प्रकृतेत्यादि । नापि प्रकृतसाध्यं महाविद्यासाध्यं तद्वत्त्वापरपर्यायः, प्रकृतसाध्यं महाविद्यासाध्यं पक्षः शब्दः, तयोः संसर्गः एव महाविद्यासाध्यस्य पक्षनिष्ठत्वमित्यर्थः । हेतुमाह-प्रकृतेति । प्रकृतसाध्यं महाविद्यासाध्यम् । तद्वत्त्वं हि पक्षे शब्दे निष्ठमस्ति त्वन्मते । एवं च प्रकृतसाध्यवत्त्वस्य पक्षनिष्ठत्वं धर्मो जातः । धर्मधर्मिणोश्च तादात्म्याभावात्प्रकृतसाध्यवत्त्वमेव पक्षनिष्ठत्वमिति न समीचीनमित्यर्थः । ननु प्रकृतसाध्यवत्त्वस्य पक्षनिष्ठत्वरूपस्यैव पक्षनिष्ठत्वं किं न स्यादित्याशङ्कयाह-पक्षनिष्ठत्वस्येति। एतत्तत्वम्-यदि प्रकृतसाध्यवत्त्वमेव पक्षनिष्ठत्वरूपं स्यात्, तदा प्रकृतसाध्यवत्त्वस्य पक्षनिष्ठत्वरूपस्य पक्षनिष्ठत्वं न भवेत् । स्ववृत्तिविरोधात् । तस्मात्प्रकृतसाध्यवत्त्वस्य पक्षनिष्ठत्वं धर्मः एव, न तु प्रकृतसाध्यवत्त्वमेव पक्षनिष्ठत्वमिति । प्रकृतसाध्यपक्षसंसर्गो यद्यपि न पक्षनिष्ठत्वं, तथाप्यपर्यवसानात्पक्षनिष्ठत्वं गमयेदिति महाविद्यासाध्यस्य पक्षनिष्ठत्वसिद्धिरित्याशङ्कय वक्ति-न च पक्षस्येति। पक्षस्य शब्दस्य, प्रकृतसाध्यं महाविद्यासाध्यं, तद्वत्त्वसिद्धिः। अपर्यवसानादिति । पक्षे प्रकृतसाध्यवत्त्वसिद्धिः तर्देव, यहि महाविद्यासाध्यस्य पक्षनिष्ठत्वं स्यादित्यपर्यवसानबलात्प्रकृतसाध्यस्य महाविद्यासाध्यस्य पक्षनिष्ठत्वं गोचरयतीति न च युक्तमित्यन्वयः । कस्मान्न युक्तमत्राहअपर्यवसानस्येति । अपर्यवसानं नाम किं तेन व्याप्यत्वं, तेन विनानुपपद्यमानत्वं वा इत्यादिपूर्वोक्तयुक्तिभिरपर्यवसानस्य प्रागेव प्रतिषिद्धत्वादित्यर्थः । आराध्यविरोधेनेति । आराध्याः सूत्रकारभाष्यकारादयः पूर्वाचार्याः । तैश्च केवलान्वयित्वानङ्गीकारान्महाविद्यापि नोररीचक्रे इति महाविद्यावादिनां तदभ्युपगमे आराध्यविरोधः प्रकट: एवेत्याकूतम् ।
१ 'साध्यस्य पर्व' इति च पुस्तकपाठः ।
Aho! Shrutgyanam