________________
१६६
भुवनसुन्दरसूरिकृतटिप्पनसमेतं
वादात् । तस्य धर्मस्य शब्दात्मभ्यामन्यत्र घटादौ चावर्तनात् । तस्मात्पारिशेष्याच्छब्दस्यैवानित्यत्वमायातम् । शब्दानित्यत्वे च तस्य धर्मस्य शब्दरूपेऽनित्ये वर्तनादनित्यवृत्तित्वमुपपन्नमेवेत्यर्थः । साध्यधर्ममाचष्टे स च शब्देति । स च धर्मः शब्दात्मव्यतिरिक्तविश्वप्रतियोगिकः शब्दात्मान्यो-' न्याभाव एवेत्यर्थः । उपलक्षणं चैतत् । तेन शब्दात्मान्यान्यत्वशब्दात्मान्यतरत्वादिः शब्दात्ममात्रवृत्तिरन्योऽपि साध्यधर्मो बोद्धव्यः ।
___ ननु तथापि दृष्टान्ते घटे तथाभूतधर्मस्य असंभवात् साध्यविकलत्वम् । न । घटेऽपि शब्देतरोनित्यनित्ययुगले न वर्तते अनित्यवृत्त्यपि घटत्वम् । अतस्तेनैव व्याप्तिरिति न दोषः । इति प्रथमोदाहरणम् ॥
(भुवन०)-सपक्षधर्म प्रतिपिपादयिषुराशङ्कते-नन्विति । परिहरति-न घटेऽपीति । अत्र च दृष्टान्तीभूते घटेऽपि घटत्वमस्तीत्यध्याहारः । तच्च शब्देतरानित्यनित्ययुगले न वर्तते । घटरूपानित्ये एव तस्य वर्तनात् । तत एव च तत् अनित्यवृत्यप्यस्ति । अतस्तेनैव घटत्वेनैव व्याप्तिरिति भावः । उपलक्षणं चैतत् । तेन पटादीनां दृष्टान्तत्वे पटत्वादयो धर्माः ज्ञेयाः । अत्र व्याप्तिश्वेत्थं विधेया-यत् यत् प्रमेयं तत्तच्छब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवत् यथा घटादि । न चाकाशादिषु मेयत्वे सत्यपि शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यधर्मवत्त्वं नास्तीत्यनैकान्तिकत्वमिति वाच्यम् । आकाशादीनां पक्षतुल्यत्वात् । अयमर्थः-यथा आत्मात्र पक्षी. कृतस्तथाकाशादिकमपि पक्षीक्रियते । तथाहि-आकाशं शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवत् मेयत्वात् घटादिवत् । एवं च सति नहि पक्षे पक्षतुल्ये वा व्यभिचारः । ततश्च यथा पक्षे सन्दिग्धसाध्यत्वेन व्याप्तेरभावेऽपि व्यभिचारो नास्ति, तथा पक्षतुल्येऽपीत्यर्थः । ननु यादृशो धर्मः पक्षे साध्यरूपः तादृशः सपक्षे नास्ति । मैवम् । शब्दपरावतै विनैव आत्मा शब्देतरेत्यादिभिरेव शब्दैः पक्षे शब्दात्मान्योन्याभावस्य दृष्टान्तीभूते घटे घटत्वस्य चोपपत्तेरिति प्रथममहाविद्याव्याख्या ॥
(अथ द्वितीयानुमानम् ।) अथ प्रकारान्तरेण शब्दानित्यत्वसाधनं दर्शयितुमनित्यत्वानुमानसंग्राहिकां कारिकामाह
२ अपक्षसाध्यवदृत्ति विपक्षे पक्षिते न यत् ।
साध्यवद्धृत्तितायुक्तं साध्यते तद्विपक्षगम् ॥ २॥ आकाशः आकाशशब्देतरानित्यत्तित्वानधिकरणानित्यत्तिधर्मवान् ।
अस्य च पूर्वस्मादयमेव भेदो यत्पक्षीकृतस्यैव विपक्षस्य व्यावृत्तिः, न सर्वस्य । पूर्वस्मिस्तु यावद्विपक्षव्यावृत्तिरिति ।
अयमर्थः-अपक्षो यः साध्यवान् सः अपक्षसाध्यवान् । तत्र यद्वर्तते
. १ 'तरानित्यपर्ग इति क ख पुस्तकपाठः।
Aho ! Shrutgyanam