________________
महाविद्याविवरणम् ।
१६७ तदपक्षसाध्यववृत्ति, तद्यन्न भवति । विपक्षे आकाशादौ च पक्षिते पक्षीकृते यन्न वर्तते तत्साध्यते इति संवन्धः । किंभूतं साध्यते । विपक्षगं, विपक्षे इत्यर्थः । उपलक्षणपक्षीकृते इति यावत् ।
अथ पदयोजना-अत्र आकाशेत्यनेन विपक्षे इति व्याख्यातम् । शब्देतरानित्येत्यनेन अपक्षसाध्यववृत्तीति । अनित्यवृत्तीत्यनेन साध्यववृत्तितायुक्तमिति । इति पदयोजना ॥
(अथ द्वितीयानुमानम् ।) (भुवन०)-अथ शब्दानित्यत्वसाधनायैव द्वितीयानुमानवाच्यां कारिकां व्याख्यातुमाहअपक्षेतीति ।
“ अपक्षसाध्यवद्वति विपक्षे पक्षिते न यत् ।
साध्यवद्वृतितायुक्तं साध्यते तद्विपक्षगम् " ॥२॥ एतस्यार्थः पूर्ववत् । अस्य चेत्यादि । अयमर्थः । पूर्वस्मिन्ननुमाने आत्मा शब्देतरानित्यनित्येत्यत्र नित्यपदेन सर्वेऽपि नित्याः पदार्थाः वर्जिताः । आकाशः आकाशशब्देतरानित्यवृत्तित्वेत्यत्र तु नित्यपदस्थाने आकाशपदप्रक्षेपेण पक्षीकृतस्याकाशस्यैव व्यावृत्तिर्न तु सर्वनित्यपदार्थानामिति । अथानुमानम्-आकाशः आकाशशब्देतरानित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवान् मेयत्वात् घटवत् । आकाशश्च शब्देतरानित्याश्च तत्र वृत्तिर्येषां तद्भावः तत्त्वम् । तदनधिकरणं चासौ अनित्यत्तिधर्मश्चेति विग्रहः।
अथ व्यावृत्त्यचिन्ता-आकाशोऽनित्यवृत्तिधर्मवानितिकृते सत्तया सिद्धसाधनम् । तदर्थं शब्देतरेतिपदम् । तथापि घटाकाशसंबन्धः शब्देतरानित्यघटे एव वर्तते इति तेन सिद्धसाधनम् । तद्यावृत्त्यर्थमनित्यवृत्तित्वानधिकरणेति पदोपादानम् । तथाप्याकाशपरमाणुसंयोगः शब्देतरानित्यवृत्तित्वानधिकरणो भवति, नित्ये परमाणावेव वर्तनात् । अतस्तेन सिद्धसाधनम् । तदर्थमनित्यवृत्तीतिपदग्रहणम् । तेनेदृशमनुमानं स्यात्-आकाश: शब्देतरानित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवानिति । तथाप्येवंविधधर्मस्य अन्यत्र अदृष्टचरत्वादप्रसिद्ध विशेषणः पक्षः । न हि अनित्ये वर्तते, शब्देतरानित्ये च न वर्तते इति धर्मः संभवति । यो हि अनित्यवृत्तिः स शब्देतरानित्ये वर्तते यथा घटत्वादि । तथा च सपक्षाभावेन अन्वयित्वमेव व्याहन्यते । तदर्थमाकाशग्रहणम् । तथा च न कश्चिद्दोषः । आकाशशब्देतरानित्यमेलके यो न वर्तते, (सः) अनित्यवृत्तिरपि भवति । एवंभूतश्च धर्मो दृष्टान्ते घटे घटात्मा
१ व्यावृत्तिचिन्ता इति न पुस्तकपाठः ।
Aho ! Shrutgyanam