________________
१६८
भुवनसुन्दरसूरिकृतटिप्पनसमेतं न्योन्याभावोऽपि संभवति । आकाशे त्वेवंभूतो धर्मस्तदा स्याद्यदि शब्दस्यानित्यत्वं स्यात् । स च शब्दाकाशान्योन्याभावः एव । इति द्वितीयोदाहरणम्॥
(भुवन०)-आकाशोऽनित्यत्तिधर्मवानिति कृते सत्तयेति । सत्तारूपस्य धर्मस्यानित्ये आकाशेऽपि च विद्यमानत्वात्सिद्धसाधनं स्यादित्यर्थः । तदर्थ शब्देतरेति । सत्तायाः शब्देऽपि विद्यमानत्वात्तनिषेधः । तथापि घटाकाशसंबन्धः इत्यादि । घटस्याकाशेन संबन्धः घटाकाशसंबन्धः । तस्य च शब्देतरानित्यघटे आकाशे च विद्यमानत्वात्तेन सिद्धसाधनं स्यादित्यर्थः । तयावृत्त्यर्थमनित्यत्तित्वानधिकरणेति पदोपादानम् । तथाप्याकाशपरमाणुसंयोगः इत्यादि। अत्रायं भावः । आकाशः शब्देतरानित्यवृत्तित्वानधिकरणधर्मवान् इति कृतेऽप्याकाशपरमाणुसंयोगेन सिद्धसाध्यतैव । आकाशश्च परमाणुश्च आकाशपरमाणू, तयोः संयोगः आकाशपरमाणुसंयोगः । स च नित्यवृत्तिरेव । तस्मात्तेन सिद्धसाधनता । तथाप्येवंविधधर्मस्येत्यादि । अयमर्थः-आकाशः शब्देतरानित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवानिति कृतेऽप्रसिद्धविशेषणः पक्षः । अन्यत्र दृष्टान्ते एवंविधस्य धर्मस्य अप्रसिद्धत्वात् । कथमप्रसिद्धविशेषणतेत्याशङ्कयाह-नहि अनित्ये वर्तते इत्यादि। स्पष्टम् । तथा च सपक्षाभावेन अन्वयित्वमेव व्याहन्यते इत्यादि। अन्वयित्वं केवलान्वयित्वं तस्यैव धर्मस्य स्यात्, यो दृष्टान्ते सिद्धः स्यात् । अत्र चैवंविधस्य धर्मस्य दृष्टान्ते अभावेन अन्वयित्वं व्याहन्यते इत्यर्थः । आकाशशब्देतरानित्यमेलके इत्यादि । आकाशे न वर्तते, शब्देतरानित्ये च वर्तते । तेन एवंविधो धर्मों युगलावृत्तिरनित्यवृत्तिश्च दृष्टान्ते घटादौ घटात्मव्यतिरिक्तविश्वप्रतियोगिकघटात्मान्योन्याभावादिः घटत्वादिषु संभवति । आकाशे त्वेवंभूतो धर्मस्तदा स्यादित्यादि । पक्षीकृते आकाशे एवंविधो महाविद्यासाध्यविचारणायातो धर्मस्तदैव स्याद्यदि शब्दस्यानित्वं स्यात् । इदमत्रैदंपर्यम्-एवंविधो धर्मः शब्दाकाशान्योन्याभावः शब्दाकाशव्यतिरिक्तविश्वप्रतियो. गिकः, शब्दाकाशौ शब्दाकाशव्यतिरिक्तविश्वादन्यौ इति रूपः अवशिष्यते । तस्य च अनित्यवृत्तित्वं तदैव स्यात्, यदि शब्दोऽनित्यः स्यात् । आकाशस्य च नित्यत्वं वादिप्रतिवादिनोरविवादास्पदीभूतम् । तस्माच्छब्दस्यैव विप्रतिपन्नमनित्यत्वं पारिशेष्यात्सिध्यतीति द्वितीयानुमानव्याख्या ॥
(अथ तृतीयानुमानम् ) अथ पुनरप्यपेक्षितशब्दानित्यत्वसिद्धये भङ्गयन्तरमाचक्षाणः संग्राहिकां कारिकामाह
३ अपक्षसाध्यवद्धृत्तिविपक्षान्वयवर्जितः।
नानाविपक्षवृत्त्यन्यभिन्नधर्मोऽस्ति पक्षिते ॥३॥ शब्दः अशब्दानित्यनित्यवृत्त्यन्यनानानित्यादृत्त्यशब्दधर्मवान् ।
पूर्वस्मादस्य अयमेव भेदो यत्र वास्तवः एव पक्षो न विपक्षादिः । पुरनप्यनेकविपक्षव्यावृत्तिश्चेति । अत एव पूर्वाध गतार्थमेवेति न व्याख्यातम् । उत्तरार्घस्य त्वयमर्थः । नानाविधा येऽस्य विपक्षाः ते नानाविपक्षाः, तत्र प्रव.
Aho ! Shrutgyanam