________________
महाविद्याविवरणम् ।
१६९ तते इति नानाविपक्षवृत्तिः । तस्मादन्यः नानाविपक्षवृत्त्यन्यः । अनेकविपक्षावृत्तिरित्यर्थः । भिन्नस्य धर्मो भिन्नधर्मः । नानाविपक्षवृत्त्यन्यश्चासौ भिन्नधर्मश्वेति नानाविपक्षवृत्त्यन्यभिन्नधर्मः । सः पक्षिते पक्षीकृते वास्तवे वा पक्षेऽस्ति साध्यते इत्यर्थः । भिन्नधर्म इति । भिन्नस्य धर्मत्वं पक्षापेक्षया बोद्धव्यम् । पक्षाच्छब्दाद्भिन्नस्येत्यर्थः, न तु भिन्नश्चासौ धर्मश्चेति भिन्नधर्मः । एतदेवापि साध्यपर्यवसानाय भिन्नस्य धर्मः इति ।
(अथ तृतीयानुमानम् ।) (भुवन०)-अथ पक्षमेव पक्षीकृत्य प्रवर्त्तमानमहाविद्यावाच्यकारिका ब्याचिख्यासुराहअपक्षेतीति।
“ अपक्षसाध्यवद्वत्तिविपक्षान्वयवर्जितः ।
नानाविपक्षवृत्त्यन्यभिन्नधोऽस्ति पक्षिते " ॥ ३ ॥ पूर्वस्मादित्यादि । पूर्वस्मादनुमानादस्य अयमेव भेदो यदत्र वास्तवः सत्यः एव शब्दः पक्षो न आकाशात्मादिः । पुनरप्यनेकविपक्षव्यावृत्तिश्चेत्यादि । पुनरपि पूर्वस्मादनुमानादयं विशेषो यदनेकविपक्षव्यावृत्तिश्च । पूर्वस्मिन्ननुमाने तु पक्षितस्यैवैकस्य विपक्षस्य व्यावृत्तिरिति । नानाविपक्षवृत्त्यन्यः इति । नानाविपक्षेषु न वर्तते एकस्मॅिस्तु वर्तते एव । भिन्नधर्मः इति। पक्षापेक्षया अपरो यो भिन्नः पदार्थः तस्य धर्मः । एतदेवेति । भिन्नस्य धर्मः इति एतदेव साध्यपर्यवसानाय अनित्यत्वरूपसाध्यसिद्धबै भवति इत्यर्थः । अस्यां कारिकायामथवेति वक्तव्ये महाविद्याकर्तुरपक्षेति पदं प्रमादात्पतितम् । “ अथवा साध्यवद्वृत्तिविपक्षान्वयवर्जितः" इति तु पाठो युक्तः ।
इदानीमनुमानश्लोकपदयोजना-अत्र अपक्षसाध्यववृत्तीति अशब्दानित्येत्यनेन व्याख्यातम् । विपक्षान्वयवर्जितः इति नित्यवृत्त्यन्येत्यनेन । नानाविपक्षवृत्त्यन्येति नानानित्यावृत्तिरित्यनेन व्याख्यातम् । भिन्नस्य धर्मः इत्यशब्दधर्मवानित्यनेन । इति योजना ॥
(भुवन०)-अथानुमानम्-शब्दः अशब्दानित्यनित्यवृत्त्यन्यनानानित्यावृत्त्यशब्दधर्मवान् मेयत्वात् घटादिवत् । अपक्षसाध्यवद्वत्तीति । अत्रानुमाने अशब्देति यदुक्तं तब्यर्थमपि कारिकायां अपक्षेति भणनादुक्तम् । अयं भावः । पूर्वत्र अपक्षेतिकारिकायामुक्तं तदपेक्षया अनुमाने शब्देतरेत्युक्तम् । तत्र च साध्यो धर्मों विपक्षस्य पक्षीकृतत्वात् शब्दात्मान्योन्याभावादिः । स च शब्देतरेत्युक्तं यदि न स्यात्, तदा नित्ये आत्मनि अनित्ये च शब्दे तस्य धर्मस्य वर्तनात् वाद्यभिप्रायेण अनित्यनित्यवृत्तित्वानधिकरणत्वं न स्यात् । तेन शब्देतरेति भणितम् । अस्मिंश्चानुमाने साम्यो धर्मो वास्तवस्यैव पक्षस्य पक्षीकृतत्वादनित्यत्वादिः । स चानित्ये एव वर्तते न नित्ये । तस्मादत्राशब्देति पदं व्यर्थम् ।
१°एतदेव साध्य इति घ पुस्तकपाठः । २२ महाविद्या०
Aho ! Shrutgyanam