________________
१७०
भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । . अत्र शब्देतरानित्यनित्ययुगले यो न वर्तते, यो नानानित्येष्वपि न वर्तते, सः अशब्दधर्मः शब्देऽनित्यत्वमेव । तथाहि-अनित्यनित्ययुगले यो न वर्तते, तस्य प्रकारत्रयमत्र घटते । उभयत्र यो न वर्तते, सोऽपि युगले न वर्तते । नित्ये वा केवले यो न वर्तते, सोऽपि युगले न वर्तते । अनित्ये वा केवले यो न वर्तते, सोऽपि युगले न वर्तते । अत्र च अशब्दधर्मवानित्यनेन वृत्तिसाधनेन सर्वथा अत्र अवृत्तिस्तावन्निषिद्धा । अतः एकैकवृत्तिरवशिष्यते। तत्र नानाविपक्षवृत्त्यन्येत्यनेन नित्यवृत्तिः प्रत्युक्ता। अतः परिशेषादनित्यवृत्तिरेवावशिष्यते । तच्चानित्यत्वमेवेति साध्यसिद्धिः । तस्य च इमेव अशब्दधर्मत्वं यत्सकलानित्यसाधारण्यमिति न कश्चिद्दोषः॥
( भुवन० ) अशब्दधर्मवानित्यनेन वृत्तिसाधनेनेति । वर्तनं वृत्तिः । तत्साधनेन एवंविधो धर्मः कापि वर्तते एव । सर्वत्र न तस्य अवृत्तिरित्यर्थः । एतावता उभयत्रानित्यनित्ययोयों धर्मो न वर्तते, तस्य प्रथमप्रकारोक्तस्य निषेधः कृतः इति भावः । यद्यशब्दधर्मः तर्हि शब्दे कथं साध्यते इत्याशङ्कयाह-तस्य चेदमेव अशब्दधर्मत्वमिति । शब्दस्यैव स धर्मो न भवति किन्तु सकलानित्यानां धर्मः इत्यर्थः।
अथ व्यावृत्त्यचिन्ता-अत्र शब्दः अशब्दधर्मवानितिकृते साधारणधर्मवानित्यर्थः स्यात् । तथा च सत्तया सिद्धसाधनं, तस्याः साधारणत्वात् । तदर्थं नानानित्यावृत्तिरित्युक्तम् । तथा चैवमनुमानं स्यात्-शब्दो नानानित्यावृत्त्यशब्दधर्मवान् । तथा च घटशब्दान्योन्याभावेन सिद्धसाधनम् । तदर्थमनित्यनित्यवृत्त्यन्येति प्रक्षिप्तम् । तथा सति एतावतीप्रतिज्ञा स्यात्-शब्दोऽनित्यनित्यवृत्त्यन्यनानानित्यावृत्त्यशब्दधर्मवानिति तथा च घटशब्दान्योन्याभावेन सिद्धसाधनता परिहृता। तस्य प्रतिवाद्यभिप्रायेण नित्ये शब्दे अनित्ये घटे च वर्तमानत्वान्न नित्यानित्यावृत्तित्वम् । एवं सति यद्यपि साध्यमनित्यत्वं सिध्यति, तथाप्याकाशादौ तथाभूतस्य धर्मस्य असंभवात्, अन्वयित्वव्याघातः । विपक्षस्य संभवात् । तदर्थमशब्देति पदम् । तथा सत्याकाशादौ शब्दान्योन्याभावः एवेत्यसौ यद्यपि नित्यानित्यवृत्तिर्न भवतीत्युच्यते, तथापि अशब्दानित्यनियंवृत्तिर्भवतीति न व्यभिचाराशङ्कापि । इति तृतीयोदाहरणम् ।
१ नित्यत्तित्वमें इति क ख पुस्तकपाठः । २ प्रतिवायपेक्षया नित्ये इति ख पुस्तकपाठः । ३ असंभवेन अन्व इति क पुस्तकपाठः । ४ शब्दाकाशान्यों इति न पुस्तकपाठः । ५ नित्यानित्यावृत्तिनम इति न पुस्तकपाठः । ६ नित्यनित्यावृत्ति इति न पुस्तकपाठः ।
Aho ! Shrutgyanam