Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 225
________________ महाविद्याविवरणम् । १६७ तदपक्षसाध्यववृत्ति, तद्यन्न भवति । विपक्षे आकाशादौ च पक्षिते पक्षीकृते यन्न वर्तते तत्साध्यते इति संवन्धः । किंभूतं साध्यते । विपक्षगं, विपक्षे इत्यर्थः । उपलक्षणपक्षीकृते इति यावत् । अथ पदयोजना-अत्र आकाशेत्यनेन विपक्षे इति व्याख्यातम् । शब्देतरानित्येत्यनेन अपक्षसाध्यववृत्तीति । अनित्यवृत्तीत्यनेन साध्यववृत्तितायुक्तमिति । इति पदयोजना ॥ (अथ द्वितीयानुमानम् ।) (भुवन०)-अथ शब्दानित्यत्वसाधनायैव द्वितीयानुमानवाच्यां कारिकां व्याख्यातुमाहअपक्षेतीति । “ अपक्षसाध्यवद्वति विपक्षे पक्षिते न यत् । साध्यवद्वृतितायुक्तं साध्यते तद्विपक्षगम् " ॥२॥ एतस्यार्थः पूर्ववत् । अस्य चेत्यादि । अयमर्थः । पूर्वस्मिन्ननुमाने आत्मा शब्देतरानित्यनित्येत्यत्र नित्यपदेन सर्वेऽपि नित्याः पदार्थाः वर्जिताः । आकाशः आकाशशब्देतरानित्यवृत्तित्वेत्यत्र तु नित्यपदस्थाने आकाशपदप्रक्षेपेण पक्षीकृतस्याकाशस्यैव व्यावृत्तिर्न तु सर्वनित्यपदार्थानामिति । अथानुमानम्-आकाशः आकाशशब्देतरानित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवान् मेयत्वात् घटवत् । आकाशश्च शब्देतरानित्याश्च तत्र वृत्तिर्येषां तद्भावः तत्त्वम् । तदनधिकरणं चासौ अनित्यत्तिधर्मश्चेति विग्रहः। अथ व्यावृत्त्यचिन्ता-आकाशोऽनित्यवृत्तिधर्मवानितिकृते सत्तया सिद्धसाधनम् । तदर्थं शब्देतरेतिपदम् । तथापि घटाकाशसंबन्धः शब्देतरानित्यघटे एव वर्तते इति तेन सिद्धसाधनम् । तद्यावृत्त्यर्थमनित्यवृत्तित्वानधिकरणेति पदोपादानम् । तथाप्याकाशपरमाणुसंयोगः शब्देतरानित्यवृत्तित्वानधिकरणो भवति, नित्ये परमाणावेव वर्तनात् । अतस्तेन सिद्धसाधनम् । तदर्थमनित्यवृत्तीतिपदग्रहणम् । तेनेदृशमनुमानं स्यात्-आकाश: शब्देतरानित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवानिति । तथाप्येवंविधधर्मस्य अन्यत्र अदृष्टचरत्वादप्रसिद्ध विशेषणः पक्षः । न हि अनित्ये वर्तते, शब्देतरानित्ये च न वर्तते इति धर्मः संभवति । यो हि अनित्यवृत्तिः स शब्देतरानित्ये वर्तते यथा घटत्वादि । तथा च सपक्षाभावेन अन्वयित्वमेव व्याहन्यते । तदर्थमाकाशग्रहणम् । तथा च न कश्चिद्दोषः । आकाशशब्देतरानित्यमेलके यो न वर्तते, (सः) अनित्यवृत्तिरपि भवति । एवंभूतश्च धर्मो दृष्टान्ते घटे घटात्मा १ व्यावृत्तिचिन्ता इति न पुस्तकपाठः । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260