Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 221
________________ महाविद्याविवरणम् । १६३ १ अपक्षसाध्यवद्धृत्तिविपक्षान्वयियन्न तत् । साध्यवद्धृत्तितायुक्तं साध्यते साध्यवर्जिते ॥१॥ आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवान् मेयत्वात् घटवत् । तस्यायमर्थः-अपक्षो यः साध्यवान् सः अपक्षसाध्यवान् । सपक्षः इत्यर्थः। तत्र सपक्षे वर्तमानं यत् तत् अपक्षसाध्यववृत्ति । विपक्षे अन्वयो यस्य तत् विपक्षान्वयि । अपक्षसाध्यववृत्ति च तत् विपक्षान्वयि च इत्यपक्षसाध्यवद्धृत्तिविपक्षान्वयि । तत् यत् न भवति तत् अपक्षसाध्यववृत्तिविपक्षान्वयियन्न । सपक्षविपक्षावृत्तीत्यर्थः । तत्साध्यते इति संबन्धः। किंभूतम् । साध्यववृत्तितायुक्तम् । साध्यवान् सपक्षः, तत्र वर्तते इति साध्यववृत्ति, तस्य भावः इति यावत् । ( अथ प्रथमानुमानम् ।) तत्र प्रथमं तावच्छब्दानित्यत्वानुमानस्य सङ्ग्राहकं श्लोकं व्याचिख्यासुराह-अपक्षेतीति । " अपक्षसाध्यवद्वृत्तिविपक्षान्वयियन तत् ।। साध्यवद्वत्तितायुक्तं साध्यते साध्यवर्जिते " ॥१॥ __ अस्यायमर्थः-अपक्षो यः साध्यवान् सोऽपक्षसाध्यवान् सपक्षः इत्यर्थः । तत्र सपक्षे घटादौ वर्तमानं यत्तत् अपक्षसाध्यवद्वृत्ति । विपक्षे गगनादौ अन्वयो यस्य तद्विपक्षान्वयि । अपक्षसाध्यवइत्ति च तद्विपक्षान्वयि चेति अपक्षसाध्यवत्तिविपक्षान्वयि । तद्यन्न भवति तदपक्षसाध्यवद्वृत्तिवि. पक्षान्वयियन्न । सपक्षविपक्षावृत्तीत्यर्थः । तत्साध्यते इति संबन्धः । किंभूतम् । साध्यवद्वृत्तितायुक्तं साध्यवान्सपक्षः, तत्र वर्तते इति साध्यवद्वत्ति । तस्य भावः साध्यवत्तिता, तया युक्तम् । ननु अपक्षसाध्यवद्वत्तीत्यादिभणनात् महाविद्यानुमानसाध्यस्य सपक्षे विपक्षे च वृत्तिता निषिद्धा। तत. स्तत्साध्यवद्वृत्तितेत्यादिभणनात् साध्यवद्वृत्तितायुक्तं साध्यवर्जिते विपक्षे यदि साध्यते, तदा सपक्षविपक्षवृत्तितैव तस्य स्यात् । तथा च कारिकापूर्वार्धोत्तरार्द्धयोर्विरोधः एवापद्यते इति चेत् । न । अत्र सपक्षविपक्षयोरवृत्तिता या प्रोक्ता सा युगलावृत्तित्वेन । तथा च सति यो धर्मो विपक्षे साध्यते स सपक्षे नास्ति । शब्दात्मान्यान्यत्वादेः शब्दात्मभ्यामन्यत्र घटादिसपक्षेऽवर्तनादिति स सपक्ष. विपक्षयुगलावृत्तिरुच्यते । एवंभूतश्च विपक्षे साध्यते । ननु तर्हि स धर्मः शब्दात्मान्यान्यत्वादिः साध्यवद्वृत्तिः कथम् । सत्यम् । अत्र शब्दात्मान्यान्यत्वधर्मस्य शब्दात्मनोरन्यत्रावर्तनात् साध्यवद्धत्तित्वं तदेव, यदि शब्दः साध्यवान्स्यादिति परिशेषप्रमाणेन शब्दः एव साध्यवान् जातः । तथा च स धर्मः साध्यवति शब्दे वर्तमानो भवतीति साध्यवद्वत्तित्वं तस्य धर्मस्येति न कश्चिद्विरोधगन्धोऽपि बुद्धिमद्भिरपि शङ्कितुं शक्यते इति । इदानी लोकानमानपढयोजनिका-अत्र शब्देतरानित्येत्यनेन अपक्ष Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260