________________
महाविद्याविडम्बनम् । त्वात्। तेन पक्षीकृतशब्दानित्यत्वसिद्धिःप्रतीत्यपर्यवासानादिति मन्यसे। तन्न । पक्षीकृतः शब्दः पक्षीकृतशब्दमात्रवृत्त्यनित्यनिष्ठधर्मवानितिप्रतीतेः । पक्षीकृतशब्दानित्यत्वालम्बनत्वनियमे मानाभावात् । अन्यथा सकलवस्त्वालम्बनत्वनियमस्य दुर्वारत्वात्। पक्षीकृतशब्दस्य पक्षीकृतशब्दमात्रवृत्त्यनित्यनिष्ठधर्मवत्त्वमनित्यत्वाभावे व्याहतमिति प्रकृतप्रतीतेः पक्षीकृतशब्दानित्यत्वालम्बनत्वनियमसिद्धिरिति चेत् । न । अवास्तवपक्षीकृतशब्दानित्यत्वेनापि व्याघातनिवृत्तौ प्रकृतप्रतीतेः पक्षीकृतशब्दानित्यत्वालम्बनत्वनियमस्य नि/जत्वात् ।
(भुवन० )-अनित्यत्वं परिशेषात्सेत्स्यतीत्याशङ्कते-अथ पक्षीकृतेति । पक्षीकृतशब्दमात्रवृत्तिरित्येतावता पदेन पक्षीकृतस्य शब्दस्य साध्यधर्माश्रयत्वं लब्धम् । पक्षमात्रवृत्तेश्च पक्षादन्यत्रासत्त्वेन तदन्यस्य पक्षान्यस्य साध्यधर्मानाश्रयत्वमिति तत्त्वार्थः । तथापि कथमाश्रयस्यानित्यत्वमित्याह-अनित्यनिष्ठ इति । पक्षमात्रवृत्तिः कथंभूतः । अनित्यनिष्ठः । अनित्यनिष्ठत्वं च तस्य तदैव, यद्यनित्यः शब्दःस्यादिति विवक्षितधर्माश्रयस्य शब्दस्यानित्यत्वमनित्यनिष्ठ इति पदेन लब्धमित्यभिसन्धिः । विवक्षितधर्माश्रयः कः इत्याह-विवक्षितेति । विवक्षितो धर्मः शब्दमात्रवृत्तिरनित्यनिष्ठः शब्दत्वादिरित्यर्थः । तत्कुतः इत्याह-तदन्यस्येति । पक्षीकृतशब्दमात्रवृत्तिरित्यत्र मात्रशब्दप्रहणात्पक्षीकृतशब्दान्यस्य निषिद्धत्वादित्यर्थः । सिद्धं दर्शयति-तेनेति । शब्दस्य अनित्यत्वं विना पक्षीकृतशब्दमात्रवृत्त्यनित्यनिष्ठधर्मस्य प्रतीतिर्न विश्राम्यतीत्याकूतं मानाभावेन निराकरोति-तन्नेत्यादि । पक्षे पक्षमात्रवृत्त्यनित्यनिष्ठधर्मप्रतीतिः पक्षीकृतशब्दस्यानित्यत्वमालम्बते एवे. तिनियमे मानं नास्तीति तात्पर्यार्थः । प्रमाणं विनापि तदालम्बनत्वनियमाभ्युपगमेऽतिप्रसङ्गं प्रेरयतिअन्यथेति । अन्यथा तत्प्रतीतिः समस्तवस्तून्यप्यालम्बते एव नियमेनेत्यर्थः । महाविद्यावादी वावदीति-पक्षीकृतेति । शब्दो यद्यनित्यो न भवेत् , तर्हि शब्दस्य पक्षीकृतशब्दमात्रवृत्त्यनित्यनिष्ठधर्मवत्त्वं व्याहतमिति प्रकृतशब्दस्य यदनित्यत्वं तदालम्बनत्वनियमसिद्धिरित्यर्थयोजना । आचार्यः प्रत्याचष्टे-न । अवास्तवेति । अवास्तवं वादिभ्रमसिद्धं यत्पक्षीकृतशब्दस्य अनित्यत्वं तेनापि व्याघातनिवृत्तौ जातायां प्रकृतप्रतीतेः पक्षमात्रवृत्त्यनित्यनिष्ठधर्मवत्त्वप्रतीतेः पक्षीकृतशब्दस्य यदनित्यत्वं तदालम्बलनत्वनियमस्य निर्हेतुकत्वमित्यक्षरार्थः ।
किञ्च व्याघातबलादियमनुमितिः पक्षीकृतशब्दानित्यत्वे पर्यवस्यतीति वक्तव्यम् । व्याघातश्च विरोधप्रतीतिः । सा च विरुदयप्रमितिजन्या । प्रकृते चानित्यत्वाभावपक्षीकृतशब्दमात्रावृत्त्यनित्यनिष्ठधर्मी विरोधिनौ । न च पक्षीकृतशब्दमात्रवृत्त्यनित्यनिष्ठधर्मः प्रकृतानुमितेः पूर्व प्रमितः । प्रकृतानुमानवैयर्थ्यात् । अनुमित्युत्तरकालीनस्तु व्याघातो निरर्थकः। व्याघाताभावेन विनाप्यनित्यत्वं पूर्वमेवानुमितेः पर्यवसितत्वात् ।
१ रत्वम् । पं इति घ पुस्तकपाठः । २ व्याघातेन विनापि पूर्व इति घ पुस्तकपाठः।
Aho ! Shrutgyanam