________________
१४४
भुवनसुन्दरसूरिकृतटीकायुतं (भुवन०)-भङ्गान्तरं भणितुं प्रस्तावयति-किञ्च व्याघातेति । यदि शब्दानित्यत्वं नाभ्युपेयते, तर्हि पक्षे पक्षेतरत्वधर्मसिद्धया व्याघातः स्यादिति व्याघातबलादियं महाविद्यानुमितिः पक्षीकृतशब्दस्यानित्यत्वे विश्राम्यतीति भावः । ननु व्याघातः कः, अत्राह-व्याघात इति । द्वयोर्विरोधप्रतीतिर्व्याघातः इत्यर्थः। सा चेति । सा च विरोधप्रतीतिविरुद्धयोद्धयस्य या प्रमिति: तज्जन्येत्यक्षरयोजना । प्रकृते चेति । प्रकृते महाविद्यानुमानेऽनित्यत्वस्याभावो नित्यत्वं, पक्षीकृतशब्दमात्रवृत्तिरनित्यनिष्ठः पक्षीकृतशब्दानित्यत्वे शब्दत्वादिः, तौ द्वावपि विरोधिनौ । पूर्वकालीनो व्याघातः शब्दानित्यत्वसिद्धथुपयोगी किंवा उत्तरकालीनः इति गूढाभिप्रायेण द्वैधं विकल्प्य प्राचीनं प्रति आह--न चेत्यादि । पक्षीकृतशब्दमात्रवृत्त्यनित्यनिष्ठो धर्मः शब्दानित्यत्वे सति शब्दत्वादिः प्रकृतानुमितेर्महाविद्यानुमानात्पूर्व न च प्रमाणेन गृहीतः । तद्धर्मस्य पूर्व प्रतीतौ महाविद्यानुमानवैयर्थ्यात् । एतावतानुमितेः पुरा विरुद्धप्रमितेरभावात्पूर्वकालीनव्याधातासम्भवेन पौरस्त्यः पक्षोऽपास्तो भवति । उदीचीनं कल्पमपास्यते-अनुमितीति । अनुमानकरणादुत्तरकाले विरुद्धप्रतीतिश्चेव्याघातः, तदा स निरर्थकः एवेत्यर्थः। हेतुना पूर्वोक्तं द्रढयति-व्याघातेति । अनित्यत्वं विनापि व्याघाताभावेन हेतुना अनुमितेः पूर्वमेव पर्यवसितत्वादिति पदान्वयः । तात्पर्यार्थस्त्वयम्व्याघातबलात् हि अनित्यत्वमिति भवानवादीत् । अत्र चानुमानावसरे व्याघाताभावेन शब्दस्यानित्यत्वं विनाप्यनुमितिः पर्याप्तेत्युत्तरकालजातो व्याघातो व्यर्थः एवेति ।।
किञ्च, किं व्याघाते एकपरिहारेण द्वितीयस्योपलम्भो बीजं, किंवा उभयोः परस्परपरिहारेणोपलम्भः, किंवा उभयोनियमेन परस्परपरिहारेणोपलम्भः । आये घटत्वमेयत्वादेर्व्याघातापत्तिः । द्वितीये घटत्वशुक्लत्वादेर्व्याघातापत्तिः वक्ष्यमाणदोषश्च । तृतीयस्तु प्रकृते न संभवत्येव । अनित्यत्वाभावस्य पक्षीकृतशब्दमात्रवृत्त्यनित्यनिष्ठधर्ममन्तरेणोपलम्भेऽपि अनित्यत्वाभावमन्तरेण पक्षीकृतशब्दमात्रनिष्ठानित्यनिष्ठधर्मस्यानुपलम्भात् । उभयोः परस्परपरिहारेणोपलम्भेऽपि परस्परपरिहारनियमस्य निष्प्रमाणत्वाचेति ।
(भुवन०)-अथ व्याघातमेव त्रिः पक्षयित्वा प्रतिक्षिपति-किञ्च किमित्यादि। एकमन्तरेणापि द्वितीयस्योपलम्भो व्याघाते बीजं कारणमिति परमार्थः । प्राचिकं पक्षं परास्यतेआये इति । यद्यपि घटत्वे मेयत्वमस्ति, तथापि मेयत्वे घटत्वाभावाद्घटत्वपरिहारेण मेयत्वस्य पटादावुपलम्भोऽस्ति । ततः एकपरिहारेण द्वितीयोपलब्धौ चेद्व्याघात:, तदात्रापि व्याघातः प्रसज्येत । नास्ति व्याघातो, घटत्वे मेयत्वसद्भावादित्यादिमः पक्षो न क्षोदक्षमः । पुरःसरपक्षं क्षिपतिद्वितीये इति । रक्ते घटे घटत्वं शुक्लत्वं विनाप्युपलब्धम् , पटादौ च शुक्लत्वं घटत्वमन्तरेणाप्युपलब्धमिति परस्परपरिहारोपलम्भादेकस्मिन् शुक्ले घटे घटत्वशुक्लत्वसंसर्गस्य व्याघाताभावेऽपिव्याघातः आपछतेत्यर्थः । वक्ष्यमाणेति । परस्परपरिहारोपलम्भस्य व्याघातबीजत्वे निष्प्रमाणकत्वं नाम तृतीयपक्षस्य वक्ष्यमाणदोषश्च स्यादित्यत्र घटना । तार्तीयीकमसम्भवेन निराकरोति-तृतीयः इति ।
१ पक्षमात्रवृत्त्यानित्यनिष्ठो इति च पुस्तकपाठः । २ संसर्गव्याघा इति छ द पुस्तकपाठः ।
Aho ! Shrutgyanam