Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 206
________________ १४८ भुवनसुन्दरसूरिकृतटीकायुतं (भुवन०)-भङ्गयन्तरेण परः आक्षिपते-अथ पक्षीकृतेति । यदि पक्षीकृतेत्यादिसा. ध्यधर्मः केवलान्वयित्वेनाभिमतः पक्षे शब्दे निष्ठो न वेति विवादं प्रकटीकृत्य, महाविद्यासाध्यस्य पक्षनिष्ठत्वारोपणाय अयं शब्दः इत्याद्यनुमिमीषे । तदेति। तदा महाविद्यासाध्यं भवतु, महाविद्यासाध्यस्य पक्षशब्दनिष्ठत्वं तु कौतस्कृतमितिरूपा अर्थान्तरता दुर्वारैवेत्यर्थः । अर्थान्तरतो. पपादनाय युक्तीः प्रयुङ्क्ते-न हि पक्षीकृतेति । न हि पक्षीकृतेत्यादिमहाविद्यासाध्यमेवपक्षीकृतशब्दनिष्ठत्वं, किन्तु महाविद्यासाध्यस्य पक्षीकृतशब्दनिष्ठत्वं धर्मः । धर्मधर्मिणोश्च वैशेषिकादिदर्शने भेदान्न तदेव तदित्यर्थः । नापि तस्येति । पक्षीकृतशब्दनिष्ठत्वं तस्य पक्षीकृतशब्दतदितरेत्यादिसाध्यस्य नातिव्यापकम् । कुतो न व्यापकमत्राह-तस्येति । तस्य पक्षीकृतेत्यादिप्रकृतसाध्यस्येत्यर्थः । पक्षीकृतशब्दनिष्ठत्वस्येति । पक्षीकृतशब्दनिष्ठत्वं हि पक्षितशब्दनिष्ठे एव अस्ति, न तु गगनादाविति । यत्र पक्षीकृतेत्यादि साध्यं तत्र पक्षीकृतशब्दनिष्ठत्वमिति व्याप्तेरभावात् पक्षीकृतशब्दनिष्ठत्वं पक्षीकृतेत्यादिसाध्यस्य नापि व्यापकमित्यर्थः । पक्षीकृतशब्दनिष्ठत्वस्य गगनादावपि वर्तमानत्वोपगमे दोषं भाषते-अन्यथेति । तस्य पक्षीकृतशब्दनिष्ठत्वस्य योऽभावः, तदप्रसिद्धौ तत्रापि पक्षीकृतशब्दनिष्ठत्वेऽपि विवादानुपपत्तिः। अयं परमार्थः-यदि पक्षीकृतशब्दनिष्ठत्वं गगनादावपि स्यात्, तर्हि केवलान्वयित्वेन महाविद्यासा• ध्यवत् तस्य सर्वत्र सद्भावात्, महाविद्यासाध्ये पक्षीकृतशब्दनिष्ठत्वमस्ति न वेति विवादः एव न भवेदिति । युक्त्यन्तरेण अर्थान्तरतामेव समर्थयते-नापि प्रकृतेत्यादि । नापि प्रकृतसाध्यं महाविद्यासाध्यं तद्वत्त्वापरपर्यायः, प्रकृतसाध्यं महाविद्यासाध्यं पक्षः शब्दः, तयोः संसर्गः एव महाविद्यासाध्यस्य पक्षनिष्ठत्वमित्यर्थः । हेतुमाह-प्रकृतेति । प्रकृतसाध्यं महाविद्यासाध्यम् । तद्वत्त्वं हि पक्षे शब्दे निष्ठमस्ति त्वन्मते । एवं च प्रकृतसाध्यवत्त्वस्य पक्षनिष्ठत्वं धर्मो जातः । धर्मधर्मिणोश्च तादात्म्याभावात्प्रकृतसाध्यवत्त्वमेव पक्षनिष्ठत्वमिति न समीचीनमित्यर्थः । ननु प्रकृतसाध्यवत्त्वस्य पक्षनिष्ठत्वरूपस्यैव पक्षनिष्ठत्वं किं न स्यादित्याशङ्कयाह-पक्षनिष्ठत्वस्येति। एतत्तत्वम्-यदि प्रकृतसाध्यवत्त्वमेव पक्षनिष्ठत्वरूपं स्यात्, तदा प्रकृतसाध्यवत्त्वस्य पक्षनिष्ठत्वरूपस्य पक्षनिष्ठत्वं न भवेत् । स्ववृत्तिविरोधात् । तस्मात्प्रकृतसाध्यवत्त्वस्य पक्षनिष्ठत्वं धर्मः एव, न तु प्रकृतसाध्यवत्त्वमेव पक्षनिष्ठत्वमिति । प्रकृतसाध्यपक्षसंसर्गो यद्यपि न पक्षनिष्ठत्वं, तथाप्यपर्यवसानात्पक्षनिष्ठत्वं गमयेदिति महाविद्यासाध्यस्य पक्षनिष्ठत्वसिद्धिरित्याशङ्कय वक्ति-न च पक्षस्येति। पक्षस्य शब्दस्य, प्रकृतसाध्यं महाविद्यासाध्यं, तद्वत्त्वसिद्धिः। अपर्यवसानादिति । पक्षे प्रकृतसाध्यवत्त्वसिद्धिः तर्देव, यहि महाविद्यासाध्यस्य पक्षनिष्ठत्वं स्यादित्यपर्यवसानबलात्प्रकृतसाध्यस्य महाविद्यासाध्यस्य पक्षनिष्ठत्वं गोचरयतीति न च युक्तमित्यन्वयः । कस्मान्न युक्तमत्राहअपर्यवसानस्येति । अपर्यवसानं नाम किं तेन व्याप्यत्वं, तेन विनानुपपद्यमानत्वं वा इत्यादिपूर्वोक्तयुक्तिभिरपर्यवसानस्य प्रागेव प्रतिषिद्धत्वादित्यर्थः । आराध्यविरोधेनेति । आराध्याः सूत्रकारभाष्यकारादयः पूर्वाचार्याः । तैश्च केवलान्वयित्वानङ्गीकारान्महाविद्यापि नोररीचक्रे इति महाविद्यावादिनां तदभ्युपगमे आराध्यविरोधः प्रकट: एवेत्याकूतम् । १ 'साध्यस्य पर्व' इति च पुस्तकपाठः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260