Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 207
________________ महाविद्याविडम्बनम् । इति दृषणपाषाणजर्जरीकृतमूर्तयः । महाविद्याः क्षणं स्थातुं न क्षमन्ते रणाङ्गणे ॥ २१ ॥ ( भुवन० ) —— पूर्वप्रतिपादितनिखिलदोषदूषितत्वं महाविद्याया निगमयति- इति दूषणेत्यादि । दूषणान्येव पाषाणाः, तैर्जर्जरीकृता मूर्तयो यासां तास्तथेति विग्रहः । वादरणाङ्गणे महाविद्याः क्षणमपि स्थातुं न क्षमन्ते, न समर्था भवन्तीत्यर्थः ॥ २१ ॥ अथ किमर्थं स्वाभिमतसकलप्रमेयसाधकमहाविद्यानिराकरणम् । जातीनामिव तासामाभासत्वख्यापनार्थम् । अन्यथा महाविद्याप्रयोक्तृणां शिष्याणां प्रतिवाद्युदीरितप्राचीनदूषणैः पराजयादिति । १०३ १४९ ( भुवन ० ) - अन्वयव्यतिरेक्यनुमानसाध्यस्य स्वाभिमतस्य महाविद्यया अनायासेन साधयितुं शक्यत्वात्तन्निरासः किमर्थमित्यारेकते - अथ किमर्थमित्यादि । स्वस्य अभिमान सकलप्रमेयाणि नित्यत्वानित्यत्वादीनि तत्साधिकाः याः महाविद्याः तन्निराकरणं किमर्थमित्यन्वयः । प्रश्नं मत्वा सिद्धान्ती समाधत्ते - जातीनामिवेति । यथा जातीनां दूषणाभासत्वं, तथा महावि-द्यानां हेत्वाभासत्वख्यापनार्थे महाविद्यानिराकरणमिति भावः । विपर्यये बाधकमभिधत्तेअन्यथा महाविद्येति । अन्यथा यदि महाविद्यानामाभासत्वं न ख्याप्यते, तदा सम्यक् साधनत्वाच्छिष्या महाविद्याः प्रयुञ्जते । तथा च प्रतिवाद्युद्भावित दुष्परिहारपूर्वोक्तानैकान्तिकत्वादिदूषणैः शिष्याणां पराजयः प्रसज्येत । तस्मादाभासत्वख्यापनाय महाविद्यानिरासः समञ्जसः एवेति हृदयाभिप्रायः । एवं च साधनाभासत्वान्महाविद्या कथायां न प्रयोक्तव्येति शिष्यानुशिष्टिरादिष्टा भवति । किञ्च यत्र यत्र परः प्रौढिप्रकर्षमवलम्बते । श्लाघ्यस्तत्तन्निरासार्थः प्रज्ञाभ्यासवतां श्रमः ॥ २२ ॥ योगीश्वरगुरोः शब्दविद्यामासाद्य तत्त्वतः । व्यत्त भट्टवादीन्द्रो महाविद्याविडम्बनम् ॥ २३ ॥ इति श्रीहरकिङ्करन्यायाचार्यपरमपण्डितवादीन्द्रविरचिते महाविद्याविडम्बने दूषणविवेको नाम तृतीयः परिच्छेदः ॥ ३ ॥ ( भुवन ० ) - महाविद्याप्रयोक्तारो वयं सर्वत्र विजयिनः इति गर्वपर्वताधिरूढानां दुरभिमानभङ्गार्थमपि महाविद्यानिरासः कार्यः इत्याह- किंच यत्रेत्यादि । किंच प्रकारान्तरोक्तौ । यत्र यत्र परः प्रौढिशकर्ष पाण्डित्याभिमानमवलम्बते तत्तन्निरासार्थ: प्रज्ञाभ्यासवतां दुरधिगमग्रन्थादिविषयिणी या प्रज्ञा प्रतिभा गूढार्थविचारणादिरूपा तस्या: अभ्यासः पौनःपुन्येन परिशीलनं, तत्र तत्पराणां नराणां श्रमः श्लाघ्यो भवतीति योजना । इह यत्र यत्रेत्यत्र यच्छब्दपरामृष्टं तत्तनिरासेत्यत्र तच्छब्देन परामृश्यते । एतावता महाविद्यायां परस्य प्रौढिप्रकर्षे मत्वा महाविद्यानिरासाय श्रमः यः एवेत्यभिहितं भवति । तथा च महाविद्यानिरासेऽपरमपि प्रयोजनं प्रदर्शितमित्यर्थः ||२२|| Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260