Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
भुवनसुन्दरसूरिकृतटीकायुतं नित्यनिष्ठसिडिस्तु कथम् । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठोऽपि वेधा, पक्षीकृतशब्दावृत्तिः पक्षीकृतशब्दमात्रवृत्तिर्वा । आद्यः पक्षे व्याहत इति द्वितीयस्य सिद्धिरिति चेत् । न । मा भूत्तावत्पक्षीकृतशब्दे व्याहतत्वेन पक्षीकृतशब्दानिष्ठानित्यनिष्ठविशेषसिद्धिरनुमानात् । पक्षमात्रनिष्ठानित्यनिठत्वसिद्धिस्तु दुर्घटैव । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठविशेषमात्रेणानुमितिपर्यवसानात् ।
(भुवन०) अथ धूमानुमानसमाननयेन पूर्वोपपादितामपि स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठविशेषसिद्धिं प्रत्युक्तयुक्तिपतिभिरपास्य स्वप्रौढताप्रकटनाय उररीकृत्यापि प्रकारान्तरेण अर्थान्तरतां प्रथयति-अस्तु वा वन्हीत्यादि । इदं हृदयम्-यथा अग्निमत्त्वविशेषकतया पर्वते वन्हिविशेषसिद्धिः, तथा स्वस्वतरेत्यादिसाध्यविशेषकतया पक्षे स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठविशेषसिद्धिरस्तु इति । पक्षीति । पक्षीकृतशब्दमात्रनिष्ठोऽनित्यनिष्ठश्च शब्दानित्यत्वे सति शब्दत्वादिः, तत्सिद्विस्तु कथम् । स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठविशेषस्य घटत्वादेरपि संभवादित्यर्थः । पूर्वपक्षी भाषते-पक्षीकृतेति। अथाचार्यः परोक्तं निराचष्टे-न। मा भूदिति । पक्षीकृतशब्देऽनिष्ठो नित्यनिष्ठश्च घंटत्वादिरिति भावः । दुर्घटत्वे हेतुमाह-पक्षीति । स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठविशेषमात्रेणैवानुमितिः पर्यवसिता, न तु पक्षमात्रनिष्ठानित्यनिष्ठविशेषेणेति तत्त्वम् ।
न च पर्वतेऽपि यत्किश्चिद्रन्हिविशेषसिद्धिरस्तु, पर्वतनिष्ठवन्हिविशेषसिद्धिस्तु कुत इति वाच्यम् । पर्वते वन्हिविशेषसिद्धिरस्तु, पर्वतनिष्ठश्च वन्हिने सिध्यतीत्यस्य व्याहतत्वेन उन्मत्तप्रलापत्वात्।
(भुवन०)-आशङ्कां प्रादुष्कुर्वन् विघटयति-न चेत्यादि । धूमानुमानेऽपि पक्षितपर्वते यस्य कस्यचिद्वह्निविशेषस्य सिद्धया अनुमितिपर्यवसानात्पर्वतनिष्ठाग्निविशेषसिद्धिर्न स्यादित्याशयः ।
सिध्यतु वा पक्षीकृतशब्दे पक्षीकृतशब्दमात्रवृत्तिरनित्यनिष्ठो धर्मः । अनित्यत्वसिद्धिस्तु कथम् । न हि स एवानित्यत्वमित्यादिपूर्वोक्तन्यायात् । __ (भुवन० )-पूर्वोक्तं पुनरप्यभ्युपगम्य अर्थान्तरतामेव भङ्गयतरेणाह-सिध्यतु वेति । युक्तिं प्रयुङ्क्ते-नहीति । न हि स एव शब्दमात्रवृत्तिरनित्यनिष्ठो धर्मः एव अनित्यत्वम् । तस्य अनित्यत्वरूपत्वाभावात् । आदिपदेन ' नाप्यनित्यत्वं तस्य व्यापकमित्यादिपूर्वोक्तयुक्तिग्रहः ।
अथ पक्षीकृतशब्दमात्रवृत्तिरित्यनेन पक्षीकृतस्य आश्रयत्वं, तदन्यस्य चानाश्रयत्वं लब्धम् । अनित्यनिष्ठ इत्यनेन च विवक्षितधर्माश्रयस्यानित्यत्वम् । विवक्षितधर्माश्रयश्च पक्षीकृतः शब्द एव । तदन्यस्य मात्रग्रहणेन व्यवच्छिन्न
१ विशेषणमा' इति ज पुस्तकपाठः । २ विशेषताया' इति छ द पुस्तकपाठः । ३ "श्च पटत्वा इति च पुस्तकपाठः । ४ पक्षीकृतशब्दस्य आश्र इति घ पुस्तकपाठः ।
Aho ! Shrutgyanam
Loading... Page Navigation 1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260