Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 168
________________ ११० भुवन सुन्दरसूरिकृतटीका युतं तथा प्रकृतत्वन्य इत्यपि विशेषणमुपादेयम् । तथा च साध्याभावसाधकस्तुल्यबल: प्रकृतहेत्वन्यः प्रतिपक्ष इति प्रतिपक्षलक्षणमुक्तं भवति । प्रकृतहेत्वन्यः इति विशेषणाङ्गीकरणे हेतुमाहपूर्वाचार्यैरिति । तस्यैव मेयत्वादेरेव, तं प्रति मेयत्वादिकमेव प्रति प्रतिपक्षत्वेन पूर्वाचार्यैरव्यवहारात् । पूर्वाचार्याणां हि पूर्वोक्तहेत्वन्यस्मिन्नेव प्रति नक्षत्वव्यवहारोऽस्ति नतु मेयत्वादेरेव मेयत्वादिकं प्रतीतिभावार्थः । उपजीव्यैरिति । अयमभिप्रायः । पूर्वाचार्यैः प्रकृतहेत्वन्य इति विशेषणमुपादाय | शिवादित्यमिश्राश्च नोपाददते इति य: उपजीव्यैः पूर्वाचार्यैः सह भवतां कलहस्तेन कृतम् । एतावता पूर्वोक्तहेतोः सत्प्रतिपक्षत्वमुत्थापितं, अभीष्टविरुद्धत्वं तु स्थापितं भवति । महाविद्यान्तरेष्वपि अनित्यपदस्थाने अनित्यत्वात्यन्ताभावपदं प्रक्षिप्य साध्यप्रतीत्यपर्यवसानानित्यत्वात्यन्ताभावसाधकत्वमुपपाद्य अभीष्टविरुद्धता द्रष्टव्येति । ( भुवन ० ) - उक्तमन्यत्रातिदिशति । महाविद्येति । अयं शब्दः स्वस्वेतरवृत्तित्वरहितानि - त्यवृत्तिधर्मवानित्याद अनित्यत्ववृत्तिपदस्थाने नित्यवृत्तिपदं प्रयुज्यत इत्यर्थः । अपि सर्वगुणोऽभीष्टविरोधेन विनश्यति । किं पुनर्दोषसंघातैर्महाविद्या समाकुला ॥ ९ ॥ ( भुवन० ) — अभीष्टविरुद्धतामुपसंहरति — अपि सर्वगुण इति । सर्वगुणोऽपि हेतुरभीgavaदोषेण विनश्यति । अन्योऽपि जनः सर्वगुणोऽप्यभीष्टस्य मित्रादे विरोधेन विनश्यत्येव । महाविद्याया दोषसंघातैः समाकुलायास्तु किमुच्यते ॥ ९ ॥ अथ सव्यभिचारत्वमुन्मीलत्कुलिशेश्रियम् । महाविद्या महाभूभृत्पक्षच्छेदाय सज्जते ॥ १० ॥ ( भुवन० ) - अनैकान्तिकतोद्भावनाय प्रक्रमते - अथ सव्यभिचारत्वमिति । सव्यभि - चारत्वमनैकान्तिकत्वं महाविद्यामहाद्रिपक्षच्छेदाय सज्जते । किं कुर्वत् । उन्मीलत् । अन्तर्भूतण्यर्थत्वादुन्मीलयत् । कां कुलिशश्रियम् । यद्वोन्मीलत्कुलिशद्युतीति पदमवगन्तव्यम् । तथा च सव्यभिचारत्वस्यैतद्विशेषणम् ॥ १० ॥ सर्वमेव वस्तु स्वनिष्ठात्यन्ताभावप्रतियोगीत्युक्तम् । तेन महाविद्यासाध्ये तदत्यन्ताभाववति मेयत्वस्य गतत्वादनैकान्तिकत्वमिति । किञ्च, त्वत्साध्यं स्वभिदान्यमेयनिहिताऽभावान्वितत्वाश्रयो मेयत्वादिति केवलान्वयिमतेऽस्माकं तु तद्भेदतः । या मेयनिवृत्तताधिकरणं साध्यं त्वदीयं ततो भिन्नत्वादिति साध्यवर्जिततनौ लब्धस्थितिर्मेयता ॥ ११ ॥ त्वत्साध्यमिति । पक्षीकृत शब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वादिकं १ कुलिशयुति । इति घ पुस्तकपाठः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260