Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
५०३
महाविद्याविडम्बनम् । विवक्षितम् । स्वभिदेति । स्वान्योन्याभावः । मेयनिहितो मेयाश्रितः । स चासौ अभावश्च । तेन अन्वितः । तस्य प्रतियोगी । तस्य भावः तत्त्वम् । तस्याश्रयः तदधिकरणमित्यर्थः । प्रयोगस्तु-पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं स्वान्योन्याभावव्यतिरिक्तमेयनिष्ठाभावप्रतियोगित्वाश्रयः, मेयत्वात् घटवदिति । पक्षीकृतसाध्यान्योन्याभावव्यतिरिक्तश्च सर्वेषामन्योन्याभावः प्रमेयेऽस्त्येवेति तेषां सपक्षता । प्रकृतसाध्यस्य चान्योन्याभावव्यतिरिक्तो मेयनिष्ठोऽभावः सिध्यन्नत्यन्ताभाव एव सिध्यति । तस्य साध्यस्य सदातनत्वेन प्राक्प्रध्वंसाभावानुपपत्तेः । तेन साध्याभाववति गमनान्मेयत्वस्य सव्यभिचारत्वं अनैकान्तिकत्वापरपर्यायं दुर्वारम् । अयं हेतुः केवलान्वयिप्रामाण्यवादिनाम् । अस्माकं तु स्वान्योन्याभावव्यतिरिक्तमेयनिष्ठाभावप्रतियोगित्वान्यत्वादिति हेतुः । तदिदमुक्तं तद्भेदत इति । तदन्यत्वादित्यर्थः । तच्छब्देन च स्वान्योन्याभावव्यतिरिक्तमेयनिष्ठाभावप्रतियोगित्वं परामृश्यते।
(भुवन०)-अनैकान्तिकत्वं दर्शयति-सर्वमेवेति । सर्व वस्तु घटात्मादि स्वनिष्ठो योऽत्यन्तभावस्तस्य प्रतियोगि। इदमत्राकृतम् । घटे यदि घट: स्यात्तात्माश्रयो बाधकतर्कः प्रसज्येत । 'अव्यवधानेन स्वापेक्षणमात्माश्रयः । इति तल्लक्षणात् । तस्माद्धटादौ स्वात्यन्ताभावो विद्यते एवेति सर्व वस्तु स्वात्यन्ताभावप्रतियोगि भवतीति द्वैतीयीकपरिच्छेदे किञ्चिदुक्तम् । तेन महाविद्येति । महाविद्यासाध्ये स्वस्वेतरेत्यादौ तस्य महाविद्यासाध्यस्यैव योऽत्यन्ताभावस्तद्वति मेयत्वहेतोवृत्तत्वादिति । अयमर्थः-महाविद्यासाध्ये पूर्वोक्तयुत्तया स्वात्यन्ताभावोऽस्ति । तथा च मेयत्वस्य हेतोः स्वात्यन्ताभाववति महाविद्यासाध्यरूपे विपक्षे वर्तनादनैकान्तिकत्वम् । 'पक्षसपक्षविपक्षवृत्तिरनैकान्तिकः' इति तल्लक्षणात् ।
अथ प्रकारान्तरेण अनैकान्तिकत्वं दिदर्शयिषुः पद्यमाह-त्वत्साध्यमिति । वादिन् ,त्वत्साध्यं स्वस्वेतरेत्यादिकं महाविद्यासाध्यं, स्वभिदान्यमेयनिहिताभावान्वितत्वाश्रयः । स्वभिदायाः वस्वान्योन्याभावादन्यः स्वभिदान्यः । स चासौ मेयनिहितो मेयाश्रितोऽभावश्च, तेनान्वितः तत्प्रतियोगी, तस्य भावस्तत्त्वं, तदाश्रय इत्यर्थः ॥ ११ ॥
पद्यं व्याचरीकरीति-त्वत्साध्यमिति । तेनान्वित इति । ननु मेयाश्रिताभावान्वितो मेय एव, तत्कथं स एव तस्य प्रतियोगी । उच्यते-स्वस्मिन्स्वस्यावृत्तेर्मेयाश्रिताभावस्य मेयः प्रतियोग्येवेति तेनान्वितस्तस्य प्रतियोगी स्यादेवेति । प्रयोगं रचयति-प्रयोगस्त्विति । पक्षीकृतेत्यादिमहाविद्यासाध्यं पक्षः । मेयेषु निष्ठश्वासौ अभावश्च मेयनिष्ठाभावः । स्वान्योन्याभावव्यतिरिक्तश्चासौ मेयनिष्ठाभावश्चेति विग्रहः । महाविद्यासाध्यस्य स्वान्योन्याभावप्रतियोगित्वेन सिद्धसाध्यता स्यात्, तां निवारयति स्वान्योन्याभावव्यतिरिक्तेति पदेन । एवंविधोऽभावः कास्तीति
Aho! Shrutgyanam
Loading... Page Navigation 1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260