Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 186
________________ १२८ भुवनसुन्दरसूरिकृतटीकायुतं पक्षे ज्ञेयः । स च नित्यत्वव्याप्यनिष्ठस्तदैव, यदि शब्दत्वं नित्यत्वव्याप्यं भवेदिति शब्दत्वस्य नित्यत्वव्याप्यत्वसिद्धिः । पक्षान्यत्वधर्मेण नित्यत्वव्याप्ये आत्मत्वादौ निष्ठेन साध्यानुगतिः । शब्दत्वान्यान्यत्वादिना धर्मेण अर्थान्तरपरिहाराय नित्यत्वव्याप्यनिष्ठेत्युपात्तम् । शेषं सुगमम् । किश्च अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादित्ययं कालात्ययापदिष्टः । अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वरहित इत्यस्मदादिवचनजनितप्रमितिबाधात् । न च अस्याः प्रमितित्वमसिद्धमिति वाच्यम् । इदं ज्ञानं स्वस्वेतरवृत्तित्वरहितप्रमितिनिष्ठाधिकरणं मेयत्वाद्वदवदिति तत्सिद्धेः । पूर्वज्ञानविपरीतप्रमितित्वमेव बाधकत्वं नान्यत् किश्चित् । तदिदमुक्तं बाधां समुन्मुद्रयतीति । समुद्धादयतीत्यर्थः । ( भुवन ० ) - कालात्ययापदिष्टतां स्पष्टयति-किश्च अयमित्यादि । प्रमाणाबाधितसाधकत्वेन नात्र हेतौ बाधासम्बन्धवैधुर्यमित्यत आह-अयं शब्द इति । अयं शब्दः स्वस्वेतरेत्यादिसाध्यरहितः इत्येवंरूपा या अस्मदादिवचनजनिता प्रमितिः आगमप्रमाणं, तया बाधः इति भावः । न च अस्या इति । अस्या अस्मदादिवचनजनितप्रभितेः प्रभितित्वमागमप्रमाणत्वमसिद्धमिति न च वाच्यम् । कुतो न वाच्यमित्यत आह- इदं ज्ञानमिति । अस्मदादिवाक्यजन्यज्ञानमित्यर्थः । एतज्ज्ञानत्वं धर्मः पक्षेऽवसेयः । स च प्रमितिनिष्ठः तदानीमेव, यदि पक्षितमेतज्ज्ञानं प्रमितिरूपं स्यादित्येतज्ज्ञानस्य प्रमितित्वसिद्धिः । सपक्षे एतज्ज्ञानान्यत्वं धर्मो बोद्धव्यः । स च प्रमितिः प्रत्यक्षादिप्रमाणं तन्निष्ठः एवेति तेन साध्यानुगतिः । घटादिज्ञानेन सिद्धसाधनता मा भूदितीदं ज्ञानमित्युक्तं । तत्सिद्धेरिति । अस्मदा दिवचनप्रमितित्वसिद्धेरित्यर्थः । पूर्वमहाविद्याया बाध्यत्वं दर्शयितुं बाधकलक्षणं लक्षयति — पूर्वेति । पूर्वज्ञानं महाविद्या साध्यवत्त्वज्ञानं शब्दस्य, तस्माद्यद्विपरीतप्रमितित्वं शब्दस्य महाविद्यासाध्यरहितत्वज्ञानं, तदेव बाधकत्वं तच्चास्मदादिवाक्यजनितप्रमितेरस्त्येवेति भावार्थ: । एवं मेयत्वादिहेतोः कालात्ययापदिष्टता समादिष्टा । ' प्रमाणबाधितसाध्यसा - धकत्वं कालात्ययापदिष्टत्वमिति तल्लक्षणात् । किञ्च सकलमहाविद्यानां सिद्धान्तविप्लावकत्वं नाम दूषणम् । तथाहिगगनादयः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादिति, पार्थिवपरमाणुः स्वस्वेतरवृत्तित्वरहितनित्यरूपादिमन्निष्ठाधिकरणं मेयत्वादिति, आप्यादिपरमाणुः स्वस्वेतरवृत्तित्वरहितपाकजरूपादिमन्निष्ठाधिकरणं मेयत्वादिति, ईश्वरः स्वस्वेतरवृत्तित्वरहितानित्यज्ञानेच्छाप्रयत्नधर्माधर्म सुखदुःखदेषभावनावन्निष्ठाधिकरणं मेयत्वादित्यादेः सर्वत्र सुवचत्वात् । न चैवमादीनामागमबाधः । विवादपद्मागमः स्वस्वेतरवृत्तित्वरहिताप्रमाणनिष्ठाधिकरणं मेयत्वादित्यादेः तत्प्रामाण्यप्रतिक्षेपेऽपि सुवचत्वात् । ( भुवन० ) - इदानीं सिद्धान्तविप्लावकत्वदूषणं प्रादुष्करोति- किञ्च सकलेति । विप्लावकत्वं व्यवस्थारहितत्वम् । ननु नित्या गगनादय:, तथा चतुर्विधाः अपि परमाणवो नित्याः, Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260