Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 185
________________ महाविद्याविडम्बनम् । १२७ व्याप्यत्वाभावसिद्धिः । एतदेव विशदद्यति न हीति । प्रकृतं साध्यं महाविद्यासत्कं मेयत्वस्याव्यापकं, मेयत्वं च तेन महाविद्यासाध्येन व्याप्यमित्ययुक्तं, व्याघातादित्यर्थः । उक्ते मूलपदं दर्शयति - तदिदमिति । तदेव व्याचष्टे - अभिमतमिति । अभिमतं साध्यं महाविद्यासाध्यं तेन व्याप्यत्वं तद्व्याप्यत्वमिति । किश्च अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणमित्यत्र अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वरहितः एतदन्यत्वरहितत्वादित्यादयः प्रतिपक्षाः । न च पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वरहितत्वमप्रसिद्धमितिवाच्यम् । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं स्वस्वेतरवृत्तित्वरहितकुतश्चिद्यावृत्तनिष्ठाधिकरणं मेयत्वात् घटवदिति तत्सिद्धेः । ( भुवन० ) - प्रतिपक्षं लक्षयति- किश्चेत्यादि । अयं शब्दः स्वस्वेतरेत्यादिमहाविद्यासाध्येन रहितः एतदन्यत्वरहितत्वात् । एतच्छब्दाद्यदन्यत्वं तेन रहितत्वात् एतच्छब्दत्वात् । व्यतिरेके घटादि कुतो न वाच्यमत्राह - पक्षीकृतेति । एतन्महाविद्यासाध्यं पक्ष: । स्वस्वेतरवृत्तित्वरहितश्वासौ कुतश्चिद्व्यावृत्तनिष्ठश्चेति विग्रहः । इह स्वमात्रवृत्तिरेतन्महाविद्यासाध्यत्वादिको धर्मः पक्षे साध्यः । स च कुतश्चिद्व्यावृत्तनिष्ठस्तदैव, यदि पक्षितं महाविद्यासाध्यं कुतश्चिद्व्यावृत्तं भवेत् । यतश्च तद्व्यावृत्तं स महाविद्या साध्यरहितः संपन्न एवेति पक्षितमहाविद्यासाध्यरहितत्वप्रसिद्धिः । पक्षान्योन्याभावमुपादाय साध्याधिगमः । १०३ अयं शब्दो नित्यः शब्दत्वादिति वा प्रतिपक्षः । न चायं पक्षधर्मोऽपि सपक्षविपक्षव्यावृत्तत्वादसाधारण इति वाच्यम् । व्याप्तिपक्षधर्मतयोरखण्डने असाधारणस्य दूषणत्वानङ्गीकारात् । व्याप्यत्वानिश्चयादयमगमक इति चेत् । न । शब्दत्वं स्वस्वेतरवृत्तित्व रहितनित्यत्वव्याप्यनिष्ठाधिकरणं मेयत्वात घटवदिति व्याप्यत्वसिद्धेः । तदिदमुक्तं आचष्टे प्रतिपक्षमात्मविषयमिति । आत्मविषयं प्रतिपक्षं निर्धारयतीत्यर्थः । ( भुवन ० ) - न चायमिति । अयं शब्दत्वादिहेतुः पक्षधमोंऽपि सपक्षविपक्षाभ्यां व्यावृत्तत्वादसाधारणानैकान्तिकः । सति सपक्षे सपक्षाप्रवेशी असाधारणानैकान्तिकोऽनैकान्तिकभेदो वा अनद्धयवसितो वा । अत्र च नित्यत्वे साध्ये गगनादीनां सपक्षत्वेऽपि हेतोः सपक्षाप्रवेशादसाधारणत्वमिति रहस्यं । हेतुमाह - व्याप्तिपक्षेति । व्याप्तिश्च पक्षधर्मता च व्याप्तिपक्षधर्मते, तयोरखण्डने सति असाधारणानैकान्तिकत्वस्य दूषणत्वं नोरीक्रियते इत्यन्वर्थः । परमार्थस्वयम् । 'व्याप्तिपक्षधर्म तावलिङ्गमिति लक्षणाव्याप्तिपक्षधर्मते एवाखण्डिते विलोक्यते इति । आशङ्कते - व्याप्यत्वेति । अयं शब्दत्वादिति हेतुर्नित्यत्वसाध्येन यद्व्याप्यत्वं हेतोः, तदनिर्णयाद्गमकः साध्य1 स्याज्ञापक इत्यर्थः । समाधत्ते - न । शब्दत्वमिति । स्वस्वेतरवृत्तित्वरहितो धर्मः एतत्पक्षत्वादिः Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260