Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 190
________________ १३२ भुवनसुन्दरसूरिकृतटीकायुतं वृतित्वरहितपक्षाविद्यमाननिष्ठाधिकरणं मेयत्वादिति विरुद्धत्वम् । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वरूपप्रकृतव्यापकाभावस्य पक्षनिष्ठतया प्रकृतहेतुनैव साधनादिति । पक्षनिष्ठतया प्रकृतव्यापकाभावसाधकत्वमेव च साक्षाद्विरुद्धलक्षणं, न तु प्रकृतव्यापकाभावव्याप्यत्वं । तस्य साक्षाद्विरुद्धावान्तरभेदलक्षणत्वादिति संक्षेपः । तदिदमुक्तं भजते प्रत्यर्थितामात्मन इति । एवं सर्वमहाविद्यास्वपि अनैकान्तिकत्वादिसाधकत्वं योज्यम् । ( भुवन ० ) — विरुद्धत्वं महाविद्याहेतोराह – किश्चेत्यादि । स्वस्वेतरवृत्तित्वरहितो धर्मः एतन्महाविद्यासाध्यत्वमेतत्पक्षान्यान्यत्वादिर्वा पक्षे द्रष्टव्यः । स च पक्षे शब्देऽविद्यमानो यस्तन्निष्ठस्तव, यहि पक्षितं महाविद्या साध्यं पक्षेऽविद्यमानं भवेदिति विरुद्धत्वम् । पक्षान्यत्वेन व्याप्तिसिद्धिः । स्वमात्रनिष्ठधर्मेणार्थान्तरता मा भूदित्युक्तं – पक्षाविद्यमाननिष्ठेति । पक्षाविद्यमाने घ-टादौ निष्ठेन मेयत्वादिना अर्थान्तरं वारयति - स्वेतरवृत्तित्वरहितेति । अप्रसिद्धविशेषणत्वं परिहर्तु स्वेति । विरुद्धत्वे हेतुमाह - पक्षीकृतेत्यादि । पक्षीकृतशब्देत्यादिरूपं यत्प्रकृतव्यापकं महाविद्यासाध्यं तस्य योऽभावः, तस्य पक्षे शब्दे निष्ठतया प्रकृतहेतुना मेयत्वेनैव साधनात् । ननु प्रकृतव्यापकाभावव्याप्यो हि विरुद्धो हेतुर्नतु प्रकृतव्यापकाभावसाधकः इत्यपराशङ्कां पराकरोतिपक्षनिष्ठतयेत्यादि । पक्षे शब्दे निष्ठतया प्रकृतव्यापकमत्र महाविद्या साध्यं तदभावसाधकत्वमेव साक्षाद्विरुद्धहेतुलक्षणं, न तु महाविद्या साध्याभावेन व्याप्यत्वं विरुद्धहेतु लक्षणमित्याकूतम् । हेतुं ब्रूतेतस्येति । तस्य प्रकृतव्यापकाभावव्याप्यत्वस्य साक्षाद्विरुद्धस्य योऽवान्तरभेदः तल्लक्षणत्वं न तु सा - क्षाद्विरुद्धलक्षणत्वमित्यर्थः । पूर्वोक्तमन्यत्रातिदिशति — एवं सर्वेति । अयं शब्दोऽनित्यत्वव्यतिरिचैतद्धर्मत्वरहिताधिकरणं मेयत्वाद्धटवदित्यत्र अनित्यत्वव्यतिरिक्तैतद्धर्मत्वरहिताधिकरणं मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वव्यतिरिक्तैतद्धर्मत्वरहिताधि करणं मेयत्वाद्घटवदित्यनैकान्त्यादिसाधकत्वप्रकारेण “ किथ्व स्वव्यभिचारम्" इत्यारभ्य ये पूर्वमूचिरे दोषाः अनैकान्तिकत्वसोपाधिकत्वादयः ते सर्वमहाविद्यास्वप्यूहनीयाः इति रहस्यम् । ननु महाविद्यारीतिर प्रमाणं प्रमाणं वा । आद्ये न तद्बलादनैकान्तिकत्वादिदोषसिद्धिरिति निर्दुष्टत्वं महाविद्यायाः । द्वितीये तु अङ्गीकृतप्रमाणभावायां महाविद्यायामनैकान्तिकत्वादिव्युत्पादनं व्याहतमित्यत आह स्वव्याघातकमुत्तरं तव मते जातिस्तत्रापि किं स्वव्याघातकतैव दुष्टिजननी किंवोत्तरत्वान्विता । आद्ये स्यात्तव जातिसाधनमिदं पक्षे द्वितीये पुन वैयर्थ्य प्रथमं च दूषणमिह न्यायस्य तुल्यत्वतः ॥ १८ ॥ अयमर्थः -- स्वव्याघातकमुत्तरं जातिरिति हि परस्य संमतम् । तत्र किं स्वव्याघातकत्वमेव दुष्टत्वं गमयति, किंवा उत्तरत्वसहितम् । आधे महावि Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260