________________
१३२
भुवनसुन्दरसूरिकृतटीकायुतं
वृतित्वरहितपक्षाविद्यमाननिष्ठाधिकरणं मेयत्वादिति विरुद्धत्वम् । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वरूपप्रकृतव्यापकाभावस्य पक्षनिष्ठतया प्रकृतहेतुनैव साधनादिति । पक्षनिष्ठतया प्रकृतव्यापकाभावसाधकत्वमेव च साक्षाद्विरुद्धलक्षणं, न तु प्रकृतव्यापकाभावव्याप्यत्वं । तस्य साक्षाद्विरुद्धावान्तरभेदलक्षणत्वादिति संक्षेपः । तदिदमुक्तं भजते प्रत्यर्थितामात्मन इति । एवं सर्वमहाविद्यास्वपि अनैकान्तिकत्वादिसाधकत्वं योज्यम् ।
( भुवन ० ) — विरुद्धत्वं महाविद्याहेतोराह – किश्चेत्यादि । स्वस्वेतरवृत्तित्वरहितो धर्मः एतन्महाविद्यासाध्यत्वमेतत्पक्षान्यान्यत्वादिर्वा पक्षे द्रष्टव्यः । स च पक्षे शब्देऽविद्यमानो यस्तन्निष्ठस्तव, यहि पक्षितं महाविद्या साध्यं पक्षेऽविद्यमानं भवेदिति विरुद्धत्वम् । पक्षान्यत्वेन व्याप्तिसिद्धिः । स्वमात्रनिष्ठधर्मेणार्थान्तरता मा भूदित्युक्तं – पक्षाविद्यमाननिष्ठेति । पक्षाविद्यमाने घ-टादौ निष्ठेन मेयत्वादिना अर्थान्तरं वारयति - स्वेतरवृत्तित्वरहितेति । अप्रसिद्धविशेषणत्वं परिहर्तु स्वेति । विरुद्धत्वे हेतुमाह - पक्षीकृतेत्यादि । पक्षीकृतशब्देत्यादिरूपं यत्प्रकृतव्यापकं महाविद्यासाध्यं तस्य योऽभावः, तस्य पक्षे शब्दे निष्ठतया प्रकृतहेतुना मेयत्वेनैव साधनात् । ननु प्रकृतव्यापकाभावव्याप्यो हि विरुद्धो हेतुर्नतु प्रकृतव्यापकाभावसाधकः इत्यपराशङ्कां पराकरोतिपक्षनिष्ठतयेत्यादि । पक्षे शब्दे निष्ठतया प्रकृतव्यापकमत्र महाविद्या साध्यं तदभावसाधकत्वमेव साक्षाद्विरुद्धहेतुलक्षणं, न तु महाविद्या साध्याभावेन व्याप्यत्वं विरुद्धहेतु लक्षणमित्याकूतम् । हेतुं ब्रूतेतस्येति । तस्य प्रकृतव्यापकाभावव्याप्यत्वस्य साक्षाद्विरुद्धस्य योऽवान्तरभेदः तल्लक्षणत्वं न तु सा - क्षाद्विरुद्धलक्षणत्वमित्यर्थः । पूर्वोक्तमन्यत्रातिदिशति — एवं सर्वेति । अयं शब्दोऽनित्यत्वव्यतिरिचैतद्धर्मत्वरहिताधिकरणं मेयत्वाद्धटवदित्यत्र अनित्यत्वव्यतिरिक्तैतद्धर्मत्वरहिताधिकरणं मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वव्यतिरिक्तैतद्धर्मत्वरहिताधि करणं मेयत्वाद्घटवदित्यनैकान्त्यादिसाधकत्वप्रकारेण “ किथ्व स्वव्यभिचारम्" इत्यारभ्य ये पूर्वमूचिरे दोषाः अनैकान्तिकत्वसोपाधिकत्वादयः ते सर्वमहाविद्यास्वप्यूहनीयाः इति रहस्यम् ।
ननु महाविद्यारीतिर प्रमाणं प्रमाणं वा । आद्ये न तद्बलादनैकान्तिकत्वादिदोषसिद्धिरिति निर्दुष्टत्वं महाविद्यायाः । द्वितीये तु अङ्गीकृतप्रमाणभावायां महाविद्यायामनैकान्तिकत्वादिव्युत्पादनं व्याहतमित्यत आह
स्वव्याघातकमुत्तरं तव मते जातिस्तत्रापि किं
स्वव्याघातकतैव दुष्टिजननी किंवोत्तरत्वान्विता । आद्ये स्यात्तव जातिसाधनमिदं पक्षे द्वितीये पुन
वैयर्थ्य प्रथमं च दूषणमिह न्यायस्य तुल्यत्वतः ॥ १८ ॥ अयमर्थः -- स्वव्याघातकमुत्तरं जातिरिति हि परस्य संमतम् । तत्र किं स्वव्याघातकत्वमेव दुष्टत्वं गमयति, किंवा उत्तरत्वसहितम् । आधे महावि
Aho! Shrutgyanam