________________
५०३
महाविद्याविडम्बनम् । नेति । एतस्य हेतोर्वाद्युक्तस्य यदनैकान्तिकत्वं तस्यानैकान्तिकत्वस्य भवदुत्पादितस्य तेन वादिना दूषणत्वं नाङ्गीक्रियते इत्यर्थः । परः परिहारमाह-एवं तहीति । सिद्धं नः समीहितमित्याहअङ्गीकृतमिति । ____ अथ प्रतिबन्दी तर्कः एव । तर्कश्च आपाद्यपादकयोाप्तिमूलः । न च प्रमेयत्वस्य पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वसाध. कत्वस्य प्रमेयत्वस्येश्वरतदितरवृत्तित्वरहितानित्यज्ञानादिमन्निष्ठाधिकरणत्वसाधकत्वेन व्यासिरस्ति । अतो मूलशैथिल्यात्तर्काभासोऽयमिति मन्यसे । तन्न । प्रसङ्गव्यतिरिक्तप्रतिबन्द्यादितर्काणां व्याप्तिमूलत्वानङ्गीकारात् । अन्यथा सम्यक्साधनेऽपि परेण पक्षेतरत्वोपाधिपक्षनिष्ठसंदिग्धानकान्तिकत्वादिना दृषिते सम्यगनैकान्तिकत्वादौ च परेण नात्रानैकान्तिकत्वदूषणमित्युड़ते भवतोऽपि न किश्चिदुत्तरं स्यादिति । तदिदमुक्तं आधत्ते स्थितिविप्लवं चेति । __ (भुवन० )-सिद्धान्तविप्लावकत्वस्य प्रतिबन्धामन्तर्भावं पूर्वोक्तमालम्ब्य शङ्कते-अथ प्रतिबन्दीत्यादि । यद्ययमनग्निः स्यात्तर्हि निधूमः प्रसज्येत । अत्रानग्नित्वमापादकं, निधूमत्वमापाद्यं, यत्रापादकं तत्रापाद्यमिति व्याप्तिमूलस्तर्कः । न च प्रमेयेति । प्रमेयत्वहेतोर्यत्पक्षीकृतेत्यादिमहाविद्यासाध्यसाधकत्वं तस्य न च व्याप्तिरस्ति । केन सह । मेयत्वहेतोरेव यदीश्वरेत्यादिमहाविद्यासाध्यसाधकत्वं तेन इत्यन्वर्थः । भावार्थस्तु अयम्-यत्र यत्र मेयत्वस्य पक्षीकृतेत्यादिसाध्यसाधकत्वरूपमापादकं, तत्र तत्र मेयत्वस्य ईश्वरेत्यादिसाध्यसाधकत्वरूपमापाद्यमित्यापाद्यापदकयोाप्रभावः इति । किं तीत्याह-अत इति । व्याप्तिरूपं यन्मूलं तस्य शैथिल्यादयं प्रतिबन्दी तर्कस्ताभास इति आचार्यः समाधत्ते तन्नेत्यादि । प्रतिबन्दीव्याघातात्माश्रयपरस्पराश्रयादितर्काणामित्यर्थः । विपक्षे बाधकमभिधत्ते-अन्यथेति । अन्यथा प्रतिबन्द्यादितर्काणां व्याप्तिमूलत्वस्वीकारे धूमत्वादिसम्यक्साधनेऽपि परेण प्रतिवादिना पक्षेतरत्वोपाधिना पक्षनिष्ठतया संदिग्धानकान्तिकत्वादिना च दूषिते, तथा 'नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदित्यत्र ध्वनिनानैकान्त्यम् । यतो वैशेषिकादिमते ध्वनिरनित्यः श्रावणश्च भवति । "मारुतगुणः श्रावणोऽवर्णात्मा अनित्यः शकटादिभवो ध्वनिरिणत्यादि तत्स्वरूपादिति ध्वनिना सम्यगनैकान्तिकत्वादावुद्भावितेऽपि नात्रैतडूषणमिति परेणोद्धृते च, तवापि न किञ्चिदुत्तरमित्यर्थः ।भावस्त्वयम्-परेणैवमुक्ते सति भवतात्र पक्षेतरत्व. स्योपाधित्वे सर्वानुमानानां पक्षेतरत्वोपाधिग्रस्तत्वं स्यादित्यादि प्रतिबन्येव वाच्या । न च यत्रैकस्मिन्ननुमाने पक्षेतरत्वस्योपाधित्वं तत्र सर्वानुमानेषु पक्षेतरत्वस्योपाधित्वमिति व्याप्तिरस्ति । भवदाशयेन तु व्याप्तिर्विलोक्यते एवेति तव न किञ्चिदुत्तरं स्यादिति । पूर्वोक्ते मूलपदमवतारयतितदिदमिति । स्थितिः सिद्धान्तस्वरूपा।
किञ्च पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं स्वस्वेतर१ ‘पक्षतरत्वोपाधि इति छ द पुस्तकपाठः ।
Aho ! Shrutgyanam