________________
भुवनसुन्दरसूरिकृतटीकायुतं तर्भावः । यद्येवंविधैरनुमानैः शब्दानित्यत्वं साध्यते, तर्हि गगनानित्यत्वमपि कस्मान्न साध्यते इति ।
(भुवन०)-परः पृच्छति । अथेति । सिद्धान्त्याह-तीति । यथा असिद्धत्वविरुद्धत्वादिदोषाः मुख्याः एव, तथा सिद्धान्तविप्लावकत्वमपि मुख्यमेव दूषणमित्याकूतम् । स्वतन्त्रदूषणत्वकल्पने गौरवं बाधकस्तर्क इत्याशङ्कयाह-यद्वेति । प्रतिबन्धामन्तर्भावप्रकारमेवाविर्भावयतियद्येवंविधैरिति । एवंविधैर्महाविद्यानुमानैर्यदिशब्दस्यानित्यत्वं साध्यते, तर्हि तथैव गगनाऽनित्यत्वमपि कथं न साध्यते इति । एतत्तत्वम् । 'चोद्यपरिहारसाम्यं प्रतिबन्दीतर्कः' इति हि तल्लक्षणम् । ततोऽत्रापि यद्येवमित्यादिना चोद्यपरिहारसाम्यमदर्शि ।। __यदि पुनः सिद्धान्तविश्लावकत्वं सर्वसाधनदूषणसाधारणं दूषणं नाङ्गीक्रियते, तर्हि यस्मिन्कस्मिंश्चिदप्यनुमाने परेण पक्षेतरत्वेन सोपाधिकत्वेऽभिहिते संदिग्धसाध्यपक्षवृत्तित्वेन संदिग्धानैकान्तिके वा अभिहिते किं वक्तव्यम् । एवं सति सर्वानुमानविप्लव इति वक्तव्यमिति चेत् । तर्हि स्वीकृतमायुष्मता सिद्धान्तविप्लावकत्वस्य दूषणत्वम् । एवं वाद्युदीरितसाधने भवता अनैकान्तिकत्वादिसम्यग्दूषणेऽभिहते, यदि वादी नैतस्यानैकान्तिकत्वादिकं दूषणमिति वद्ति, तर्हि भवता किं वक्तव्यम् । अपसिद्धान्तः स्यादिति वक्तव्यमिति चेत् । न । एतस्य हेतोर्यदनैकान्तिकत्वं तस्य तेन दूषणत्वानङ्गीकारात् । एवं तर्हि सर्वत्रानैकान्तिकत्वस्य दूषणत्वं न स्यादिति चेत् । अङ्गीकृतं तर्हि सिद्धान्तविप्लावकत्वस्य दूषणत्वमित्यलं कलहेन । - (भुवन०)-पूर्वपक्षिणं शङ्कते-यदि पुनरिति । सर्वसाधनानां यानि दूषणानि असिद्धत्वादीनि तेषां साधारणं समानमित्यन्वयः । परमार्थस्त्वयं-यादृशमसिद्धत्वादिदूषणं तादृशं सिद्धान्तविप्लावकत्वदूषणमपि यदि नाभ्युपेयते । तर्हि यस्मिन्निति । पक्षेतरत्वस्योपाधिदूषणत्वेऽपि शब्दो नित्यः कृतकत्वाद्धटवदित्यादौ यत्र काप्यनुमाने प्रतिवादिना पक्षेतरत्वेन सोपाधिके प्रोक्ते । यद्वा 'संदिग्धविपक्षवृत्तिः संदिग्धानैकान्तिकः' इति तल्लक्षणे सत्यपि, प्रतिवादिना संदिग्धसाध्यं यत्र स संदिग्धसाध्यः, स चासौ पक्षश्च, तद्वत्तित्वेन हेतोः संदिग्धानकान्तिकत्वे प्रसजिते, किं वाच्यं भवतीत्याशयः । परः उत्तरयति–एवं सतीति । घट्टकुट्यां प्रभातमिति न्यायेन परिहरति-तर्हि स्वीकृतमिति । प्रकारान्तरेण सिद्धान्तविप्लावकत्वं स्वीकारयति-एवं वायुदीरितेति । नित्याः वर्णाः श्रावणत्वाच्छन्दत्ववदित्यादौ नैत्यशब्दिकवायुदीरिते साधने भवता प्रतिवा. दिना ध्वनिरूपे भागेऽनैकान्तिकत्वादिसम्यद्षणेऽभिहिते, यदि वादी नैतस्य हेतोरनैकान्तिकत्वादिदूषणमिति वदति, तदा त्वया किं वाच्यमित्यर्थः । परः प्रत्याचष्टे-अपसिद्धान्त इति । परिहरति
१ कथं न इति' इति च पुस्तकपाठः । २ नैत्यशब्दवा' इति छ पुस्तकपाठः ।
Aho! Shrutgyanam