________________
५०३ महाविद्याविडम्बनम् ।
१२९ पार्थिवपरमाणोः रूपरसगन्धस्पर्शाश्चानित्याः, वायवीयपरमाणुषु स्पशों नित्योऽपाकजश्व, रूपरसगन्धास्तु तत्र सन्त्येव न । आप्यपरमाणोः रूपरसस्पर्शाः नित्याः, गन्धस्तु तत्र नास्त्येव । तैजसपरमाणोः रूपस्पशौँ नित्यौ, रसगन्धौ तु न स्तः । तथा तैजसाप्यपरमाणुषु रूपाद्यपाकजम् । पार्थिवपरमाणुषु रूपादिपाकजम् । ईश्वरज्ञानेच्छाप्रयत्ना नित्याः । धर्माधर्मादयस्तु तत्र न सन्तीति सिद्धान्तमर्यादाभङ्गाभावात्कथं विप्लावकत्वमित्यत आह-तथा हीत्यादि । गगनादयः पक्षः । आदिपदेन आत्मपरमाण्वादिसंग्रहः । अनुमानव्याख्या पूर्ववत् । गगनादीनां सिद्धान्ते नित्यत्वं प्रत्यपादि, महाविद्यया चाऽनित्यत्वमपि साध्यते इति सिद्धान्तविप्लवः । पार्थिवेत्यादि । नित्यं च तद्पादि च नित्यरूपादि । आदिशब्देन रसगन्धस्पर्शपरामर्शः । नित्यरूपादयो विद्यन्ते येषु ते नित्यरूपादिमन्तः, तनिष्ठो धर्मः पार्थिवपरमाणुत्वादिः पक्षे सिध्यन्पक्षितपार्थिवपरमाणूनां नित्यरूपादिमत्त्वं साधयेदिति भावः । सपक्षे अनित्यरूपादिमानाप्यादिपरमाणुस्तनिष्ठेन पक्षान्योन्याभावेन पक्षान्यसर्वनिष्ठेन साध्याधिगमः । वैशेषिकादिमते पार्थिवाणूनामनित्यरूपादिमत्त्वं प्रतिपाद्यते, अत्र तु विपरीतसाधनाद्विप्लावकत्वम् । आप्यादीति । आदिपदात्तेजोऽणूनां ग्रहणम् , न तु वायवीयाणूनाम् । तेषां केवलस्पर्शवत्त्वेन रूपादिमत्त्वाभावात् । पाकजं च तद्रूपादि च तद्वत्सु निष्ठो यो धर्मः, तदाश्रय इत्यर्थः । आदिशब्दाद्रसस्पर्शपरामृष्टिः । अत्र आप्यादिपरमाणुत्वं साध्यधर्मः पाकजरूपादिमनिष्ठः पक्षे सिध्यन्पाकजरूपादिमत्त्वमाप्याद्यणूनां साधयति । पक्षान्यत्वं धर्मः सपक्षे ज्ञातव्यः। स च पाकजरूपादिमान्पार्थिवाणुस्तनिष्ठोऽस्त्येवेति साध्यप्रसिद्धिः । पार्थिवाणवो हि सूर्यादितेजसा ज्वलितत्वात्पाकजरूपादिमन्तः उच्यन्ते । आप्याद्यणवस्तु अवलितत्वादपाकजरूपादिमन्तः इति सिद्धान्तस्थितिः । अत्र च तद्वैपरीत्यकरणास्थितिभङ्गः। ईश्वर इति । ईश्वरो हि नित्यज्ञानादिमान्धर्माधर्मादिरहितश्च संप्रतिपन्नः,अत्र चान्यथापि साधनाद्विप्लवः । ज्ञानं चेच्छा च प्रयत्नश्च धर्मश्च अधर्मश्च सुखं च दुःखं च द्वेषश्च भावना च, अनित्याश्च ते ज्ञानादयश्चेति विग्रहः । इहेश्वरत्वं धर्मः उभयविशेषणविशिष्टः पक्षे सिध्यन्पक्षस्येश्वरस्य अनित्यज्ञानादिमत्त्वं साधयेत् । पक्षान्योन्याभावमनित्यज्ञानादिवति क्षेत्रज्ञात्मनि निष्ठमादाय साध्यानुगमः । इत्यादेरिति । अत्रादिपदेन ' श्रुतिः स्वस्वेतरवृत्तित्वरहिताप्रमाणनिष्ठाश्रयो ज्ञेयत्वाद्धटात्मादिवत् ' तथा 'ईश्वरः स्वस्वेतरवृत्तित्वरहितजगत्कर्तृत्वरहितनिष्ठाश्रयो मेयत्वाद्घटादिवदित्यादीनां ग्रहणम् । न चैवमिति । एवमादीनां गगनाद्यनित्यत्वादिसाधकानुमानानामित्यर्थः । कुतो नेत्याह-विवादेत्यादि । अत्र विप्रतिपन्नागमत्वं पक्षे साध्यधर्मः । सपक्षे च पक्षान्यत्वं धर्मः । स चाप्रमाणे प्रत्यक्षादिप्रमाणादन्यस्मिनिष्ठः एवेत्यर्थः । शेषमनुमानमुत्तानार्थम् । तत्प्रामाण्येति । तस्य विवादपदागमस्य यत्प्रामाण्यं तत्प्रतिक्षेपेऽपीति भावः ।
अथ सिद्धान्तविप्लावकत्वं कुत्रान्तर्भवतीति पृच्छसि, तर्हि न कचिदित्यवेहि । यथा सिद्धत्वादयः पृथगेव दूषणं, एवमिदमपि । यदा प्रतिबन्धामस्या.
१ सपक्षे च नित्य इति च पुस्तकपाठः । २ "ध्याधिगतिः । वैशे इति च पुस्तकपाठः । ३ हि प्रलयकाले ज्वलि इति च पुस्तकपाठः । ३ था अप्रसिद्ध इति ग पुस्तकपाठः।
Aho ! Shrutgyanam