________________
१२८
भुवनसुन्दरसूरिकृतटीकायुतं
पक्षे ज्ञेयः । स च नित्यत्वव्याप्यनिष्ठस्तदैव, यदि शब्दत्वं नित्यत्वव्याप्यं भवेदिति शब्दत्वस्य नित्यत्वव्याप्यत्वसिद्धिः । पक्षान्यत्वधर्मेण नित्यत्वव्याप्ये आत्मत्वादौ निष्ठेन साध्यानुगतिः । शब्दत्वान्यान्यत्वादिना धर्मेण अर्थान्तरपरिहाराय नित्यत्वव्याप्यनिष्ठेत्युपात्तम् । शेषं सुगमम् ।
किश्च अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादित्ययं कालात्ययापदिष्टः । अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वरहित इत्यस्मदादिवचनजनितप्रमितिबाधात् । न च अस्याः प्रमितित्वमसिद्धमिति वाच्यम् । इदं ज्ञानं स्वस्वेतरवृत्तित्वरहितप्रमितिनिष्ठाधिकरणं मेयत्वाद्वदवदिति तत्सिद्धेः । पूर्वज्ञानविपरीतप्रमितित्वमेव बाधकत्वं नान्यत् किश्चित् । तदिदमुक्तं बाधां समुन्मुद्रयतीति । समुद्धादयतीत्यर्थः ।
( भुवन ० ) - कालात्ययापदिष्टतां स्पष्टयति-किश्च अयमित्यादि । प्रमाणाबाधितसाधकत्वेन नात्र हेतौ बाधासम्बन्धवैधुर्यमित्यत आह-अयं शब्द इति । अयं शब्दः स्वस्वेतरेत्यादिसाध्यरहितः इत्येवंरूपा या अस्मदादिवचनजनिता प्रमितिः आगमप्रमाणं, तया बाधः इति भावः । न च अस्या इति । अस्या अस्मदादिवचनजनितप्रभितेः प्रभितित्वमागमप्रमाणत्वमसिद्धमिति न च वाच्यम् । कुतो न वाच्यमित्यत आह- इदं ज्ञानमिति । अस्मदादिवाक्यजन्यज्ञानमित्यर्थः । एतज्ज्ञानत्वं धर्मः पक्षेऽवसेयः । स च प्रमितिनिष्ठः तदानीमेव, यदि पक्षितमेतज्ज्ञानं प्रमितिरूपं स्यादित्येतज्ज्ञानस्य प्रमितित्वसिद्धिः । सपक्षे एतज्ज्ञानान्यत्वं धर्मो बोद्धव्यः । स च प्रमितिः प्रत्यक्षादिप्रमाणं तन्निष्ठः एवेति तेन साध्यानुगतिः । घटादिज्ञानेन सिद्धसाधनता मा भूदितीदं ज्ञानमित्युक्तं । तत्सिद्धेरिति । अस्मदा दिवचनप्रमितित्वसिद्धेरित्यर्थः । पूर्वमहाविद्याया बाध्यत्वं दर्शयितुं बाधकलक्षणं लक्षयति — पूर्वेति । पूर्वज्ञानं महाविद्या साध्यवत्त्वज्ञानं शब्दस्य, तस्माद्यद्विपरीतप्रमितित्वं शब्दस्य महाविद्यासाध्यरहितत्वज्ञानं, तदेव बाधकत्वं तच्चास्मदादिवाक्यजनितप्रमितेरस्त्येवेति भावार्थ: । एवं मेयत्वादिहेतोः कालात्ययापदिष्टता समादिष्टा । ' प्रमाणबाधितसाध्यसा - धकत्वं कालात्ययापदिष्टत्वमिति तल्लक्षणात् ।
किञ्च सकलमहाविद्यानां सिद्धान्तविप्लावकत्वं नाम दूषणम् । तथाहिगगनादयः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादिति, पार्थिवपरमाणुः स्वस्वेतरवृत्तित्वरहितनित्यरूपादिमन्निष्ठाधिकरणं मेयत्वादिति, आप्यादिपरमाणुः स्वस्वेतरवृत्तित्वरहितपाकजरूपादिमन्निष्ठाधिकरणं मेयत्वादिति, ईश्वरः स्वस्वेतरवृत्तित्वरहितानित्यज्ञानेच्छाप्रयत्नधर्माधर्म सुखदुःखदेषभावनावन्निष्ठाधिकरणं मेयत्वादित्यादेः सर्वत्र सुवचत्वात् । न चैवमादीनामागमबाधः । विवादपद्मागमः स्वस्वेतरवृत्तित्वरहिताप्रमाणनिष्ठाधिकरणं मेयत्वादित्यादेः तत्प्रामाण्यप्रतिक्षेपेऽपि सुवचत्वात् ।
( भुवन० ) - इदानीं सिद्धान्तविप्लावकत्वदूषणं प्रादुष्करोति- किञ्च सकलेति । विप्लावकत्वं व्यवस्थारहितत्वम् । ननु नित्या गगनादय:, तथा चतुर्विधाः अपि परमाणवो नित्याः,
Aho! Shrutgyanam