________________
१०३
महाविद्याविडम्बनम्।
१३३ द्यापि स्वानैकान्तिकत्वादिव्युत्पादनेन स्वव्याघातकैवेति कथं न दुष्टा । केवलमुत्तरत्वाभावाजातिसाधनमियम् । अन्यत्तु जात्युत्तरमिति। द्वितीये तु उत्तरत्वविशेषणं व्यर्थम् । स्वव्याघातकत्वस्यैव दुष्टत्वबोधापरपर्यायदुष्टिजनकत्वात् । दुष्टत्वबोधानुपयोगिविशेषणोपादाने च स्वव्याघातकं साधनं जातिरिति साधनत्वविशेषणोपादानेन उत्तरस्यापि जातित्वं निवर्तयतः किमुत्तरं स्यादिति ।
(भुवन०)-उत्तरश्लोकावताराय चोदयति-नन्विति । आद्यं प्रत्याह-आये नेति । महाविद्यायाः अप्रमाणत्वे महाविद्याबलेन नानैकान्त्यादिदोषसिद्धिरिति दोषाभावान्महाविद्यासमञ्जसैवेति भावः । द्वैतीयकं निलोठयति-द्वितीये इति । महाविद्यायाः प्रमाणत्वेऽनैकान्त्यादिदोषव्युत्पादनं व्याहतमित्याशयः।
एतावता द्वितीयविकल्पोक्तां प्रमाणीकृतमहाविद्यादोषव्युत्पादनं भवतां स्वव्याघातकमिदं जात्युत्तरमिति पराशङ्कां निरस्यति-स्वव्याघातकमुत्तरमित्यादि ॥१८॥
काव्यं व्याकुरुते-अयमर्थः इत्यादि । जातेः परसंमतलक्षणं प्रदर्य विकल्पयति-तत्र किं स्वेति । जातिर्हि दुष्टत्वगमिका, जातौ सत्यां दुष्टत्वस्य सद्भावात् । सा च स्वव्याघातकोत्तररूपा । तेन तत्र 'स्वव्याघातकमुत्तरं जातिरिति लक्षणे स्वव्याघातकत्वमेव दुष्टत्वगमकं, किंवा स्वव्याघातकमुत्तरमिति भावः । विकल्पयुगलमपि क्रमेण दूषयति-आये इति । स्वव्याघातकत्वस्यैव दुष्टत्वे महाविद्यापि स्वस्यानकान्तिकत्वादिदोषसाधनेन दुष्टैवेत्यर्थः । केवलमिति । अत्र स्वव्याघातकत्वमस्ति, न तूत्तरत्वम् । तेन यथा मृषोद्यमुत्तरं जात्युत्तरं, तथा मिथ्यासाधनं जातिसाधनमियं महाविद्येत्यभिप्रायः । अपरं पक्षं दूषयति-द्वितीये इति । स्वव्याघातकमुत्तरं दुष्टत्वं गमयतीतिरूपे स्वव्याघतकत्वस्यैव दुष्टत्वगमकत्वादुत्तरत्वविशेषणं व्यर्थमित्यर्थः । ' स्वव्याघातकमुत्तरं जातिरिति लक्षणस्य वृद्धप्रणीतत्वान्नोत्तरत्वविशेषणं हातुं शक्यमित्याशङ्कयाहदुष्टत्वबोधानुपयोगीति । दुष्टत्वबोधस्य अनुपयोगिविशेषणमुत्तरत्वं, तस्योपादाने उत्तरत्वविशेषणस्थाने साधनत्वविशेषणग्रहणात् । स्वव्याघातकं साधनं जातिरिति लक्षणेन स्वव्याघातकमुत्तरं जातिरिति लक्षणोपात्तस्य उत्तरत्वविशेषणस्यापि जातित्वं निवर्तयतः परस्य पुरस्तात्तव किमुत्तरं स्यादिति परमार्थः ।
किञ्च उत्तरत्वविशेषणेन साधनस्य जातित्वं निवर्तता, स्वव्याघातकत्वेन दुष्टत्वं तु न निवर्तते एव । न हि उत्तरगतं स्वव्याघातकत्वं दुष्टत्वं गमयति, नतु साधनगतमित्यत्र नियामकमस्ति ।
(भुवन०)-'प्रथमं च दूषणमित्येतद्व्याख्याति-किञ्चेत्यादि । उत्तरत्वविशेषणग्रहणे सत्युत्तरस्यैव जातित्वं स्यात्, नदु साधनस्य । तथाप्युत्तरत्वविशेषणे साधनत्वविशेषणे वा सत्यपि स्वव्याघातकत्वेन दुष्टत्वं स्यादेवेत्यर्थः । एतावता द्वितीये पक्षे जातिसाधनं नाम प्रथममपि दूषणं कथितं भवति । ' न्यायस्य तुल्यत्वतः' इत्येतव्याचष्टे-न हि उत्तरेति । उत्तरगतमुत्तरत्वविशेषण
Aho ! Shrutgyanam