________________
भुवनसुन्दरसूरिकृतटीकायुतं सहितं स्वव्याघातकत्वं दुष्टत्वं गमयति, न तु साधनगतं साधनत्वविशेषणसहितमित्यत्र नियामकं नियमकारि न हि किञ्चिदस्ति । एतावता जातिसाधने जात्युत्तरे च न्यायस्य तुल्यत्वं दर्शितं भवति । ___ अथ अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादित्यत्र अनित्यत्वसाधने शब्दविशेषो धर्मी, पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं च साध्यम् । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं स्वस्वेतरवृत्तित्वरहितमेयत्ववनिष्ठात्यन्ताभावप्रतियोगिनिष्ठाधिकरणमित्यत्र अनैकान्तिकत्वसाधने च पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं धर्मी, एतदितरवृत्तित्वरहितमेयत्ववन्निष्ठात्यन्ताभावप्रतियोगिनिष्ठाधिकरणत्वं च साध्यम् । तेन अनयोर्महाविद्ययोर्धर्मिसाध्यभेदान्महान्भेदः । तथा च या तावदनित्यत्वं गमयति, नासौ स्वात्मनो ऽनैकान्तिकत्वं गमयति । या पुनरनैकान्तिकत्वं गमयति, नासौ शब्दानित्यत्वं गमयति । तेन स्वव्याघातकत्वाभावान्महाविद्या न जातिसाधनमिति चेत् । न । यदि अनित्यघटसाधादनित्यः शब्दः स्यात्, तर्हि नित्याकाशसाधादमूर्तत्वान्नित्योऽपि स्यादिति साधय॑समायां प्रयुक्तायां स्वव्याघातकत्वं कीदृशं वक्तव्यम् । यदि नित्यसाधान्नित्यत्वमुच्यते, तर्हि उत्तराभाससाध
त्त्विदुक्तिरुत्तराभासः स्यादिति स्वव्याघातकत्वं साधर्म्यसमायां वक्तव्यमिति चेत् । न । नित्यसाधान्नित्यत्वापादनस्य उत्तराभाससाधादुत्तराभासत्वापादनस्य च सुव्यक्तभेदत्वेन स्वव्याघातकत्वस्यानुपपत्तेः । समानरीतिकत्वेन तु स्वव्याघातकत्वं महाविद्यायामपि समानम् । यदि च व्याघातोऽत्र न संभवति, तर्हि पूर्वोक्तन्यायेन अनैकान्तिकत्वमेव अनुमानबलाद्भावनीयम् ।
(भुवन०)-अथ स्वव्याघातकत्वमेव महाविद्याया नास्तीति प्रतिपादयितुं शाशतिअथायमित्यादि । एतन्महाविद्याद्वयं पुरापि व्याख्यातार्थमेव । धर्मिसाध्यभेदादिति । धर्मी च साध्यं च तयोर्भेदादिति । महाभेदमेव भावयति-तथा चेति । न जातिसाधनमिति यावत्सुगमम् । सिद्धान्ती प्रतिसमाधत्ते-न । यद्यनित्येति। अनित्यः शब्दः कृतकत्वाद्धटवदित्युक्ते जातिवादिना च यद्यनित्यघटसाधात्कृतकत्वादनित्यः शब्दः स्यात्, तर्हि नित्याकाशसाधादमूर्त्तत्वेन नित्योऽपि स्यादिति साधर्म्यसमायां जातौ प्रयुक्तायां भवता स्वव्याघातकत्वं कीदृशं वक्तव्यम् । स्वव्याघातकत्वं च सर्वजातिसाधारणलक्षणत्वेन गवेष्यते एव । प्रश्नं मत्वा परः उत्तरमाहयदि नित्येति । परिहरति-न। नित्येति। यन्नित्यसाधान्नित्यत्वापादनमुत्तराभाससाधादुत्तराभासत्वापादनं च, तयोर्द्वयोरपि सुव्यक्तभेदत्वेन अतिस्फुटभेदत्वेन स्वव्याघातकत्वं नोपपद्यते। अयमर्थः। नित्यत्वापादनस्य उत्तराभासत्वापादनस्य च भिन्नविषयत्वेन विरुद्धसमुच्चयाभावान्न स्वव्याघातोऽत्रेति । विषयभेदेऽपि यदि समानन्यायतयात्र स्वव्याघातः, तदानीं तयैव युक्त्या महाविद्यास्वपि
Aho ! Shrutgyanam