________________
प०३ महाविद्याबिडम्बनम् ।
१३५ स भवत्येवेत्याह-समानेत्यादि । दुर्बलं वादिनं दृष्ट्वा स्वव्याघातत्वाभावमप्यभ्युपेत्य भङ्गान्तरं भणति-यदि चेति । अत्र महाविद्यायां यदि 'विरुद्धसमुच्चयो व्याघात:' इत्येवंरूपो व्याघातो बाधकतों न सम्भवति, तर्हि पूर्वोक्तव्याघातदोषाभावेन यथैव पूर्वमुक्तं तथैवानैकान्त्यं महाविद्यायामुद्भाव्यमिति तात्पर्यम् ।
__ अथ अनैकान्तिकत्वानुमानेऽपि अनेनैव न्यायेन अनैकान्तिकत्वानुमानान्मूलानुमानानैकान्तिकत्वपरिहार इति चेत् । न । अनैकान्तिकत्वानुमानानैकान्तिकत्वानुमानेऽपि अनेनैव न्यायेन अनैकान्तिकत्वानुमानान्मूलानुमानानैकान्तिकत्वस्य तोदवस्थ्यात् । एवमुत्तरत्राप्यनैकान्तिकत्वानुमाने वक्तव्यम् ।
(भुवन०)-अन्यः शङ्कते-अथ अनैकान्तिकत्वेति । महाविद्यानुमानोच्छेदाय यत्प्रतिवादिनानैकान्त्यानुमानं विदधे तस्मिन्नप्यनेनैव महाविद्यानुमानानैकान्तिकत्वन्यायेनानैकान्तिकत्वे कृते, मूलानुमानस्य यदनैकान्तिकत्वं तस्य परिहारः । मूलानुमानतदनैकान्त्यानुमानं तदनैका. न्त्यानुमानाश्चैवं विधेयाः । तथाहि-अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वा(टात्मादिवदिति मूलानुमानम् । तदनैकान्त्याय प्रतिवादी अनुमिमीते यथा-स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं स्वस्वेतरवृत्तित्वरहितमेयत्ववन्निष्ठात्यन्ताभावप्रतियोगिनिष्ठाश्रयो मेयत्वाद्घटात्मादिवदिति मूलानुमानानैकान्त्यानुमानम् । अथास्याप्यनैकान्त्यं यथा-स्वस्वेतरवृत्तित्वरहितमेयत्ववन्निष्टात्यन्ताभावप्रतियोगिनिष्ठाश्रयत्वं स्वस्वेतरवृत्तित्वरहितं मेयत्वववृत्तिनिष्ठाश्रयो ज्ञेयत्वाद्घटादिवदिति मूलानुमानैकान्त्यानुमानानैकान्त्यान्मूलमहाविद्याया निर्दुष्टत्वं परिहरतिनेत्यादि । स्वस्वेतरवृत्तित्वरहितमेयत्ववदवृत्तिनिष्ठाश्रयत्वं स्वान्योन्याभावव्यतिरिक्तमेयत्ववन्निष्ठाभावप्रतियोगित्वाश्रयः प्रमेयत्वाद्धटात्मादिवदित्याद्यनुमानेन मूलानुमानानैकान्त्यानुमानस्य अनैकान्तिकीकरणाय यदनुमानं प्रयुक्तं, तस्याप्यनैकान्त्ये कृते मूलमहाविद्याया अनैकान्त्यं तदवस्थमेवेति तत्त्वम् । ननु तस्मिन्नप्यनैकान्त्यं महाविद्यया अनुमातुं शक्यमत्राह-एवमिति । एवं चतुर्थानुमानानैकान्त्याय पञ्चमानुमाने वादिना प्रयुक्त उत्तरत्रापि षष्ठानुमानादावपि वक्तव्यमित्यर्थः । ____ एवं सति अनैकान्तिकत्वसमर्थनोपयुक्तानुमानपरंपरानुपरमप्रसङ्ग इति चेत् । न । मूलानुमानानैकान्तिकत्वपरिहारोपयुक्तानुमानपरंपरानुपरमप्रसङ्गस्य त्वन्मतेऽपि समानत्वात् । श्रमात्तदुपरम इति चेत् । तुल्यम् । एवं सति उभयोः समानत्वादेकस्यापि विजयो न व्यवतिष्ठते इति चेत् । एवमस्तु । महाविद्यावादी सर्वत्र विजयते इत्यभिमानस्तावद्गलितः।
(भुवन०)-अनवस्थाप्रसङ्गं प्रकटयन्महाविद्यावादी वदति-एवं सतीति । मूलमहाविद्याया अनैकान्तिकत्वसमर्थनायोपयुक्ता या अनुमानपरंपरा सा नोपरमतीति हृदयम् । साम्येन
१ मानवलान्मूला इति घ पुस्तकपाठः । २ स्य तदवस्थत्वात् । इति घ पुस्तकपाठः । ३ कत्वसाधमाय प्रयु इति घ पुस्तकपाठः । ४ स्याविजयो नावति इति घ पुस्तकपाठः ।
Aho ! Shrutgyanam