________________
१३६
भुवनसुन्दरसूरिकृतटीकायुतं दूषयति-न मूलेति । मूलानुमानं शब्दानित्यत्वसाधकं महाविद्यानुमानं, तदनैकान्तिकत्वस्य परिहारायोपयुक्तानुमानपरंपरापि नोपरमते इति तात्पर्यार्थः। परः आह-श्रमादिति । तस्याः पूर्वानुमानपरंपराया उपरमः इत्यर्थः । प्रत्याचष्टे-तुल्यमिति । अस्माकमपि श्रमात्तदुपरम इति रहस्यम् । साधकबाधकयोरभावे संशयः परिशिनष्टीत्याह-एवं सत्युभयोरिति । आपाततः स्वीकुरुतेएवमस्त्विति ।
किञ्च साध्याभावववृत्तित्वाभावनिश्चयोऽनुमानाङ्गमित्युक्तम् । न चासौ साध्याभावववृत्तित्वानुमाने प्रत्यनीके सति संभवति । तेन साधनवादिन एव पराजय इति गुरवः ।
(भुवन०)-महाविद्याविडम्बनाभिमानस्तवापि गलितोऽत्राह-किश्चेति । साध्याभाववान्विपक्षः, तद्वत्तित्वाभावनिश्चयोऽनुमानाङ्गमिति पूर्वमुक्तम् । न चासौ विपक्षवृत्तित्वाभावनिश्चयः साध्याभाववान्विपक्षस्तद्वृत्तित्वसाधके अनुमाने प्रत्यनीके विपरीते सति सम्भवति । किं तह-त्याहतेन साधनेति । साधनवादिनो महाविद्यावादिनः एव पराजयः पराभव इति गुरवः प्रभाकराचार्याः प्राहुरिति संटङ्कः।।
अथार्थान्तरता नाम कृत्या नृत्यति सङ्गरे ।
सप्रपञ्चमहाविद्याग्रासकौतूहलाकुला॥ १९ ॥ (भुवन०)-अर्थान्तरतामाविष्कर्तुं प्रक्रमते-अथार्थान्तरेति । कृत्या अनर्थकरी देवता राक्षसीत्यर्थः । सप्रपञ्चाः सविस्तराः याः महाविद्यास्तगासे यत्कौतूहलं तेनाकुला । अत्र महाविद्यावादिप्रतिवादिनोविवादसङ्घामे नानाप्रकारसारयुक्तिपतिहेतिसंहतिहन्यमाना असमानमहाविद्यानुमानप्रयोगप्रतिभटघटाकोटिप्रसृतसदर्थसार्थरक्तासवपानमदोन्मत्तायाः अर्थान्तरताकृत्यायाः नृत्यं चतुरस्रमेव ॥ १९॥
शब्दे शब्दतदन्यवृत्तिरहितानित्यस्थवत्त्वे मिते
नित्यत्वप्रमितिः कथं न हि तयोरैक्यं न च व्यासता। नो साम्यान्यविशेषता न च ततो बोधे प्रकारान्तरं
सैषार्थान्तरताखिलामपि महाविद्यां समास्कन्दति ॥ २० ॥ (भुवन०) अर्थान्तरतां पद्येन प्रतिपादयति-शब्दे शब्दतदन्येति । शब्दे पक्षीकृते शब्द. तदन्यवृत्तिरहितानित्यस्थवत्वे मिते स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाश्रयत्वे सिद्धेऽप्यनित्यत्वप्रमितिः कथं, किं स्वस्वेतरेत्यादिसाध्यस्यानित्यत्वेन ऐक्यात्, उत अनित्यत्वेन व्याप्तवात्, आहोस्विदनित्यत्वस्य तद्विशेषणत्वात्। न प्राच्यः इत्याह-न हि तयोरैक्यमिति । तयोः स्वस्वेतरेत्यादिमहाविद्यासाध्याऽनित्यत्वयोरक्यमेकात्मता न ह्यस्ति । उक्तसाध्यवतो गगनादेरनित्यत्वस्य व्यावृत्तत्वात् । अत एव नोत्तरः पक्षः इत्याह-न च व्याप्ततेति । न च स्वस्वेतरेत्यादिसाध्यस्यानित्यत्वेन
१ विषाऽनित्यत्व इति च पुस्तक पाठः।
Aho ! Shrutgyanam