________________
प०३
महाविद्याविडम्बनम् । व्याप्यत्वम् । स्वस्वेतरेत्यादिसाध्यवति गगनादावनित्यत्वस्याभावेन यत्रोक्तसाध्यं तत्रानित्यत्वमिति व्याप्तेरभावादित्यर्थः । अनित्यत्वरहिते गगनात्मादौ कथितसाध्यसद्भावेन विशेषस्य विशेषणाव्याप्तत्वान्नापि तृतीयः इत्याह-नो सामान्यविशेषतेति । सामान्यविशेषतायां हि सामान्यस्य विशेध्यत्वं, विशेषस्य च विशेषणत्वं स्यादिति । अत्र च महाविद्यासाध्याऽनित्यत्वयोर्न विशेष्यविशेषणभावोऽस्ति । गगनादौ महाविद्यासाध्यरूपविशेष्यसद्भावेऽपि अनित्यत्वरूपविशेषणाभावेन यत्र विशेष्यं तत्र विशेषणमिति व्याप्तेरभावात् । तस्मात् नो सामान्यविशेषतापीत्यर्थः । महाविद्यासाध्यापर्यवसानस्य दुर्निरूपत्वेन ततः उक्तप्रकारादनित्यत्वस्य बोधे प्रकारान्तरं च नास्ति । समास्कन्दतीति । स्कन्धातोरुभयार्थत्वात्समागच्छति शोषयति वेति ॥२०॥
सिध्यतु वा मेयत्वादेः पक्षीकृतशब्दे पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वम् ।अनित्यत्वसिद्धिस्तु कुतः। न हि प्रकृतसाध्यमेवानित्यत्वम् । तद्वतोऽपि गगनादेावृत्तत्वात् । नापि तस्य व्यापकम् । तत एव । नच पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वव्यापकव्याप्यत्वेनाभिमतस्य मेयत्वादेः तत्त्वव्यापकाभ्यामन्येन व्याप्तिर्भवता शक्याऽभ्युपगन्तुम् । न च अव्यापकमपि अनित्यत्वं पक्षधर्मताबलायापकधर्मिसंसर्गवत्सेत्स्यतीति युक्तम् । हेतोः पक्षधर्मतया व्यापकपक्षसंबन्धमात्रचरितार्थत्वात् ।
(भुवन०)-पद्यं व्याख्यानयति-सिध्यतु वेत्यादि । मेयत्वादिहेतुतः पक्षितशब्दे महाविद्यासाध्य सिध्यतु, अनित्यत्वं तु कुतः सिध्यतीति तत्त्वम् । एतदेव द्रढयति-नहीति । प्रकृतसाध्यं महाविद्यासाध्यमेवानित्यत्वमिति तत्त्वार्थः । हेतुमाह-तद्वतोऽपीति । प्रकृतसाध्यवतो गगनादेः सकाशादनित्यत्वस्य व्यावृत्तत्वात् । नापि तस्येति । तस्य प्रकृतसाध्यस्य व्याप्यरूपस्य नाप्यनित्यत्वं व्यापकम् । तत एव, प्रकृतसाध्यवतोऽपि गगनादेरनित्यत्वस्य व्यावृत्तत्वादेवेति । इदं तत्त्वम् । यत्र व्याप्यं तत्र व्यापकेन भाव्यमिति हि नियमः । अत्र च प्रकृतसाध्यरूपव्याप्यं गगनादौ अस्ति, न तु अनित्यत्वरूपव्यापकम् । तस्मादनित्यत्वस्य महाविद्यासाध्यव्यापकत्वं न घटामटाट्यते इति । ननु मेयत्वहेतुरेव व्याप्तिबलात्स्वव्यापकमनित्यत्वं किं न गमयेदित्याशङ्कामपाकुरुते-न चेति । पक्षीकृतेत्यादिकं यध्यापकं महाविद्यासाध्यं तव्याप्यत्वेनाभिमतस्य मेयत्वादिहेतोः, तत्त्वं मेयत्वं, व्यापकं महाविद्यासाध्यं, ताभ्यामन्येनानित्यत्वादिना न व्याप्तिः शक्या स्वीकर्तुम् । एतत्तात्पर्यम्मेयत्वमहाविद्यासाध्ययोयाप्यव्यापकभावोऽस्तु । तयोरन्येनानित्यत्वादिना मेयत्वादेर्व्याप्पिने स्यादिति । न च अव्यापकमिति । हेतोः पक्षधर्मताबलात् अव्यापकस्य महाविद्यासाध्यस्य धर्मिणा शब्दादिना सह यथा संसर्गः सिध्यति, तथा हेतोः पक्षधर्मताबलादेव अनित्यत्वं मेयत्वस्य अव्यापकमपि सेत्स्यतीति न च युक्तमित्यर्थः । कुतो न युक्तमत्राह-हेतोरिति । हेतोर्मेयत्वादेः पक्षधर्मतया व्यापकं प्रकृतसाध्यं, पक्षः शब्दादिस्तयोः सम्बन्धात्रत्वेन चरितार्थत्वात् । अयं भावः । मेयत्वादिः पक्षधर्मताबलाच्छब्दमहाविद्यासाध्यसम्बन्धकरणेनैव चरितार्थः इत्यव्यापकमनित्यत्वं न साधयतीति । ... १ हेतुं प्राह' इति च पुस्तकपाठः । २ "मात्रे चरि इति च पुस्तकपाठः । १८ महाविधा०
Aho! Shrutgyanam