________________
१३८
भुवनसुन्दरसूरिकृतटीकायुतं अथ पक्षनिष्ठव्यापकप्रतीत्यपर्यवसानात्पक्षे अनित्यत्वसिद्धिरिति मन्यसे। तन्न। किमिदमयं शब्दः स्वस्वेत्तरवृत्तित्वरहितानित्यनिष्ठाधिकरणमिति पक्षनिष्ठव्यापकप्रतीतेरनित्यत्वमन्तरेण अपर्यवसानं अनित्यत्वमनालम्ब्यानुपपत्तिर्वा, अनित्यत्वालम्बनत्वनियमो वा। नाद्यः। अनित्यत्वमनालम्ब्य प्रतीतेरनुपपत्तिर्नाम किमनित्यत्वानालम्बनायाः प्रतीतेः प्रागभावः, किंवा अनित्यत्वाना लम्बनः प्रतीतेः प्रागभावः । नाद्यः । अनित्यत्वानालम्बनत्वे तस्या विवक्षितानित्यत्वगोचरत्वव्याघातात् । नापि द्वितीयः । अनित्यत्वानालम्बनस्य एतत्मतीतिप्रागभावस्य एतत्प्रतीत्यनित्यत्वगोचरत्वाक्षेपकत्वे मानाभावात् । नापि द्वितीयः । पक्षनिष्ठव्यापकप्रतीतेरनित्यत्वालम्बनत्वनियमस्य असिद्धेः।
(भुवन०)-परः स्वाभिप्रायं प्रादुश्वरीकरीति-अथ पक्षेति । पक्षे शब्दादौ निष्ठं यव्यापकं महाविद्यासाध्यं तत्प्रतीतेर्यदपर्यवसानमनुपपत्तिः, तस्मादिति परमार्थः । दूषयति-तन्नेति । स्वस्वेतरेत्यादिरूपं यत्पक्षनिष्ठं व्यापकं महाविद्यासाध्यं तत्प्रतीतेरनित्यत्वं विनाऽपर्यवसानं किमिदमित्यन्वयः । विकल्पयति-अनित्यत्वमिति । अनित्यत्वालम्बनात् विना महाविद्यासाध्यस्य शब्देऽनुपपत्तिरित्येको विकल्पः । अनित्यत्वेति । शब्दे प्रकृतसाध्यसाधनेऽनित्यत्वमालम्बनीयमेव नियमेनेति द्वितीयः । आद्यं विकल्पं द्विधा विकल्प्य खण्डयति-नाद्यः इति । अनित्यत्वमनालम्ब्य प्रतीतेरनुपपत्तिः किंरूपा, अनित्यत्वानालम्बना या प्रतीतिः तस्याः प्रागभावः । अनित्यत्वानालम्बना प्रतीतिर्नोत्पद्यत इत्यभिप्रायः । कि वेति । अनित्यत्वालम्बनं विना प्रतीतिर्नोपपद्यत इति रहस्यम् । आद्यं प्रति प्राह-नाद्यः इति । तस्याः प्रतीतेयेदि अनित्यत्वस्यानालम्बनत्वं, तदा विवक्षित पक्षीकृतशब्दनिष्ठं यदनित्यत्वं तद्गोचरत्वव्याघातः इति हृदयम् । अपरं पक्षं निराकुरुते-नापीति । अनित्यत्वानालम्बनं पक्षीकृतशब्दे महाविद्यासाध्यप्रतीतेः प्रागभावः पक्षे प्रकृतसाध्यप्रतीतेरनित्यत्वगोचरत्वं आक्षिपतीत्यत्र मानं नास्तीत्याकूतम् । पूर्वकल्पयोरौदीच्यं कल्पं निरसितुमाह-नापि द्वितीय इति । द्वितीयोऽनित्यत्वालम्बनत्वनियमरूपः । इह हेतुं वदति-पक्षनिष्ठेति । पक्षः शब्दघटादिः, तनिष्ठं व्यापकं महाविद्यासाध्यं, तत्प्रतीतिः शब्दस्यानित्यत्वमालम्बते एवेति नियमस्या. सिद्धेरिति । ___अथ मतं, अस्ति तावडूमवत्त्वादग्निमान् पर्वत इत्यनुमानानन्तरं पर्वतनिष्ठवन्हिविशेषे पाकार्थिनां प्रवृत्तिः तत्प्राप्तिश्च । तेन अवश्यं पर्वतो वन्हिमानित्यत्र वन्हिविशेषस्फूर्तिरङ्गीकर्तव्या । न च वन्दिमत्त्वमेवासी, नापि तस्य व्यापकः । वन्हिमत्त्ववतोऽपि महानसादेावृत्तत्वात् । न च अव्यापक
१ व्यापकत्वप्रती इति घ पुस्तकपाठः । २ विवक्षितः पक्षीकृतशब्दस्तदनित्यत्वगों' इति छ द
पुस्तकपाठः।
Aho ! Shrutgyanam