SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ५०३ महाविद्याविडम्बनम् । १३९ मपि पक्षधर्मताबलात्साध्यपक्षसंसर्गातिरिक्तं सिध्यतीति त्वयैवोक्तम् । तत्कथं पर्वतनिष्ठवन्हिविशेषसिद्धिः।। __(भुवन० )-अथ धूमानुमानेऽप्यर्थान्तरताप्रथनेन प्रतिबन्दीमुपादत्ते परः-अथ मतमिति । इत आरभ्य 'तदयुक्तमिति यावत्पराशङ्का । अस्ति तावदिति । वह्निविशेषः तार्णपार्णादिकः पाकादियोग्योऽग्निरित्यर्थः । तत्माप्तिरिति । तत्प्राप्तिः पर्वतनिष्ठवह्निविशेषप्राप्तिः । न च वह्निमत्त्वमिति । वह्निमत्त्वे वा असौ वह्निविशेषो न स्यात् । वह्निविशेषस्य वह्निमत्त्वजातेभिन्नत्वात् । नापीति । नापि तस्य वन्हिमत्त्वस्य असौ वन्हिविशेषो व्यापकः। वन्हिविशेषस्य वह्निमत्त्ववत्यपि महानसादौ अवर्तनात् । न चाव्यापकमिति । वह्निविशेषादिकं धूमवत्त्वादिहेत्वव्यापकमपि साधनस्य पक्षधर्मताबलात् साध्यं वह्निमत्त्वं, पक्षः पर्वतः, तत्संयोगादधिकं सिध्यतीति पूर्व त्वयैव महाविद्याविडम्बनाभिमानिनैवोक्तम् । तत्कथमिति । तस्मात्पर्वते सामान्येन वह्निमत्त्वे सिद्धेऽपि वह्निविशेषसिद्धिः कथमिति भावः। ___ अथ धूमवत्त्वस्य वन्हिमत्त्वं व्यापकम् , वन्हिमत्त्वं च वन्हिविशेषघटितमूर्ति, तेन पर्वते वन्हिमत्त्वमधिगम्यमानं वन्हिविशेषावच्छिन्नमेवाधिगम्यते इति । एवं तर्हि पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वमपि व्यापकं पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठविशेषघटितमूर्तीति सो. ऽपि पक्षे सिध्यत्येव। (भुवन०)-शङ्कते-अथ धूमेति । धूमवत्त्वव्याप्यस्य वह्निमत्त्वं व्यापकम् । वह्निमत्त्वं वेति । "निर्विशेषं हि सामान्यं भवेत् शशविषाणवन् । सामान्यरहितत्वेन विशेषास्तद्वदेवही"ति वचनाद्वह्निमत्त्वं सामान्यं वह्निविशेषेण घटितमूर्तीत्यभिप्रायः । फलितमाह-तेनेत्यादि । यदैव वह्निमत्त्वं ज्ञायते, तदैव वह्निविशेषोऽप्यवगम्यते इत्याशयः । मार्गमागतोऽसीत्याह-एवं तहीति । सोऽपि पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठविशेषः पक्षीकृतशब्दानित्यत्वे सति शब्दत्वादिरित्यर्थः। अथ पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठविशेषसिद्धावपि पक्षमात्रनिष्ठत्वे सति अनित्यनिष्ठः कथं पक्षे सिध्यतीत्युच्येत, तर्हि धूमानुमाने वन्हिविशेषसिद्धावपि कथं पर्वतनिष्ठवन्हिविशेषसिद्धिरिति वक्तव्यम् । (भुवन०)-आशङ्कते-अथ पक्षीकृतेति । पक्षीकृतेत्यादिविशेषस्य घटादौ सपक्षे सिद्धावपि, पक्षः शब्दः, तन्मात्रनिष्ठत्वे सति योऽनित्यनिष्ठः शब्दानित्यत्वे सति शब्दत्वादिः, स कथं पक्षे शब्दे सिध्यतीत्यर्थः।तुल्यचर्चतया परिहरति-तहीति । अथ वह्निविशेषो द्विविधः-अपर्वतनिष्ठः, पर्वतनिष्ठश्च । आद्यः पक्षे व्याघातादिना निरुडः । तेन द्वितीयस्य सिद्धिरिति । एवं तर्हि पक्षीकृतश १ शब्दादिरि' इति छ पुस्तकपाठः । Aho ! Shrutgyanam
SR No.034203
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorBhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy