________________
भुवनसुन्दरसूरिकृतटीकायुतं ब्दतदितरवृत्तित्वरहितानित्यनिष्ठोऽपि द्वेधा, पक्षीकृतशब्दानिष्ठः तनिष्ठश्च । आद्यः पक्षे व्याहत इति द्वितीयस्य सिद्धिरिति ।
(भुवन०)-दहनानुमाने पर्वतनिष्ठवह्निविशेषसिद्धिं शङ्कते-अथ वह्नीति । पक्षे पर्वते इत्यर्थः । व्याघातादिनेति । विरुद्धसमुच्चयो व्याघातः । आदिपदेन प्रमाणविरोधसंग्रहः । इहापि समः समाधिरित्याह-एवं तीत्यादि । तन्निष्ठः पक्षीकृतशब्दनिष्ठः । पक्षे विवक्षितशब्दे इत्यर्थः ।
अथ पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं किं पंक्षानिष्ठानित्यनिष्ठघटितमूर्ति किंवा पक्षमात्रनिष्ठानित्यनिष्ठघटितमूर्ति, किंवा उभयविशेषघटितमूर्ति । आये पैक्षानिष्ठस्यापि पक्षे प्रसङ्गः, द्वितीये पक्षमात्रवृत्तेरपि सपक्षे प्रसङ्गः, तृतीये तु उभयोरपि उभयत्र प्रसङ्ग इत्युच्येत, तर्हि वन्हिमत्त्वमपि किमपर्वतनिष्ठवन्हिविशेषघटितमूर्ति, किंवा पर्वतनिष्ठवन्हिविशेषघटितमूर्ति, किंवा उभयविशेषघटितमूर्तीति विकल्प्य पूर्ववदोषो वक्तव्य इति ।
(भुवन० )-महाविद्यासाध्यं स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठविशेषघटितमूर्तीति पूर्वोक्तं विकल्पैः शाशति-अथ पक्षीकृतेति । पक्षे शब्दादौ अनिष्ठः, अनित्ये घटादौ च निष्ठो घटत्वादियों धर्मः तेन घटिता विहिता मूर्तिः यस्य तत्तथा । किं वा पक्षमात्रेति । शब्दमात्रे निष्ठोऽनित्यनिष्ठश्च शब्दानित्यत्वे शब्दत्वादिधर्मः, तेन घटितमूर्ति । किवोभयेति । अनन्तरोक्तविकल्पद्धयस्य पक्षेतरवृत्तिपक्षमात्रवृत्तिरूपो उभयविशेषाविति हृदयाभिप्रायः । तृतीयं भेदं बेभिदीतितृतीये इति । पक्षानिष्ठपक्षमात्रनिष्ठयोरुभयोरप्युभयत्र पक्षे सपक्षे च प्रसङ्गः । “एकस्मिन् ये प्रसज्यन्ते द्वयोर्भावे कथं न ते” इति न्यायात् । अथात्रापि महाविद्यावादी परप्रयुक्तयुक्तिसाम्यमादिशति-तीति । एतत्स्पष्टम् ।। ___ अथ वन्हिमत्त्वव्याप्यपर्वतनिष्ठधूमवत्त्वानुभवः एव तदनन्तरभाविनी वन्हिमत्त्ववन्हिविशेषावच्छिन्नपर्वतानुमितिं जनयिष्यति, किमपर्यवसानादिना इत्युच्यते, एवं तर्हि पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वव्याप्यपक्षीकृतशब्दनिष्ठमेयत्वानुभवः एव पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वपक्षमात्रनिष्ठत्वे सति अनित्यनिष्ठविशेषावच्छिन्नपक्षीकृतशब्दानुमितिं जनयिष्यतीति संतोष्टव्यम् ।
(भुवन० )-अथ वह्नीति । वह्निमत्त्वसाध्येन व्याप्यं यत्पर्वतनिष्ठं धूमवत्त्वसाधनं तस्यानुभवः एव, तस्मात्पर्वतनिष्ठधूमवत्त्वानुभवादनन्तरभाविनी वन्हिमत्त्ववन्हिविशेषाभ्यामवच्छिन्नो -- १ त्वं किमपक्षनि इति घ पुस्तकपाठः । २ बेऽपक्षनि इति घ पुस्तकपाठः ।
Aho ! Shrutgyanam