________________
प०३ महाविद्या विडम्बनम् ।
१४१ विशिष्टो यः पर्वतः तदनुमिति जनयिष्यति, किमपर्यवसानादिना अनुपपत्त्यादिनेत्यर्थः । प्रतिबन्धैव प्रत्युत्तरयति-एवमित्यादि । पक्षीकृतेत्यादिमहाविद्यासाध्येन व्याप्यं यत्पक्षीकृतनिष्ठं मेयत्वं साधनं तदनुभवः एव । पक्षीकृतेत्यादिसाध्यं च पक्षमात्रनिष्ठत्वे सति, अनित्यनिष्ठविशेषश्च शब्दानित्यत्वे सति शब्दत्वादिरूपः । ताभ्यामवच्छिन्नस्य विशिष्टस्य पक्षीकृतशब्दस्य अनुमितिमिति पदान्वयः ।
एवं सकलमहाविद्यासु धूमानुमानसमानन्यायेन विशेषसिद्धिरुपपादनीयेति । तद्युक्तम् । पर्वतो वन्हिमान् धूमवत्त्वादित्यत्रापि धूमवत्त्वव्यापकवन्हिमत्त्वावच्छिन्नपर्वतातिरिक्तवन्हिविशेषाप्रतीतेः । कथं तर्हि अविसंवादिविशेषविषयप्रवृत्तिसाक्षिका वन्हिविशेषप्रतीतिरिति चेत् । अयं पर्वतः एतइन्हिमान् एतडूमवत्त्वात्, न यदेवं न तदेवं, यथा हद इत्यनुमानादित्यवेहि । न च अनयोर्वन्हिधूमविशेषयोः पूर्वमप्रतीतेाप्तिग्रहणासंभवः इति वाच्यम् । महानसादौ धूमवत्त्ववन्हिमत्त्वव्याप्तिग्रहणसमये सकलधूमवन्हिविशेषतनिष्ठव्याप्तिप्रतीत्यङ्गीकारात् । न च एतस्य वन्हिविशेषस्य पूर्वमेव प्रतीतत्वे अनुमानवैयर्थ्यम् । अस्य वन्हिविशेषस्य पूर्व प्रतीतत्वेऽपि एतत्पर्वतनिष्ठतया पूर्वमप्रतीतेः। __ (भुवन० ) उपसंहरति-एवमिति । विशेषसिद्धिरनित्यत्वादिसिद्धिरित्यर्थः । एवं महाविद्यावादिनोऽभिप्रायमाशङ्कय पराचष्टे-तदयुक्तमिति । कुतोऽयुक्तमत्राह-पर्वत इति । धूमवस्वहेतोापकं वन्हिमत्त्वं, तेन अवच्छिन्नपर्वतादतिरिक्तस्य विन्हिविशेषस्य अप्रतीतेरिति संबन्धः । पाकार्थिनां विशेषप्रतीतिरनुभूयते, तत्र का गतिरिति आशङ्कते-कथमिति । अविसंवादी यो विशेषः पाकादियोग्याग्निस्वरूपः, तद्विषया या प्रवृत्तिः, तत्साक्षिका वन्हिविशेषप्रतीतिः कथमिति योजना । अयमर्थः। यया अविसंवादिविशेषविषया प्रवृत्तिर्जन्यते सा वन्हिविशेषप्रतीतिरिति । गतिमाह-अयं पर्वतः इति । एतद्वह्निर्विवक्षित: पाकादियोग्योऽग्निरित्यर्थः । आशङ्कामुच्छिनत्तिनच अनयोरिति । अनयोर्विवक्षितयोधूमवन्हिविशेषयोः पूर्व महानसादौ अपरिज्ञानाव्याप्तिन संभवतीति न च भाषणीयमिति भावः । कस्मान्न वाच्यमित्यत्राह-महानसादाविति । महानसादौ सामान्येन धूमवत्त्ववन्हिमत्त्वयोर्व्याप्तिग्रहणसमये सकलधूमवन्हिविशेषयोः तनिष्ठा सकलधूमवन्हिविशेषनिष्ठा या व्याप्तिः, तस्याश्च प्रतीतेरङ्गीकारादिति पद्घटना । वन्हिविशेषश्चेत्पूर्व प्रतीतः, तदा सिद्धसाधनत्वेन अनुमानकथाप्युच्छिद्येत इत्याह-न च एतस्येति । पूर्व महानसादावित्यर्थः । हेतुमाचष्टे-अस्येति ।
अस्तु वा वन्हिमत्त्वावच्छेदकतया पर्वते वन्हिविशेषवत्पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वावच्छेदकतया पक्षीकृतशब्दे पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठविशेषसिद्धिः। पक्षीकृतशब्दमात्रनिष्ठा
१ धूमाठमानन्या' इति घ पुस्तकपाठः ।
Aho ! Shrutgyanam